________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीअलङ्कारमण्डनम् -
१९
सालकाराऽपि नो भाति तरुणी विभ्रमर्विना । तथा रसैविना काव्यमतस्तान्बमहेऽधुना ॥ १॥ विभावैरनुभावश्च सात्त्विकैर्व्यभिचारिभिः । स्थायी रत्यादिको भावो जनितो रस उच्यते ॥२॥ शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।
बीभत्साद्भुतशान्ताख्या नवते कथिता रसाः ॥३॥ तत्र शृङ्गारलक्षणम्
परस्परं नायिकानायकयोवृत्तिः, शृङ्गार उच्यते ।
सम्भोगो विप्रलम्भश्च द्विधा स परिकीर्तितः ॥४॥ सम्भोगस्योदारहणं यथाअलीकवार्ताकथनच्छलेन कर्णेऽनुवेलं लगति प्रियायाः । कश्चित्कृती चुम्बनलोभसौख्यात्पुरः सखीनां मुकुलीकृतास्यः ॥१॥ विप्रलम्भमाह
इर्ष्याभिलाषविरहशापदेशान्तरोद्भवः ।
पञ्चधा विप्रलम्भस्तु कथितः पूर्वसूरिभिः ॥५॥ इर्ष्याभवो यथा
लुप्ताङ्गरागारुणनेत्रपचं विलोक्य कान्तं दयिता निशान्ते । हरोद हस्तस्थकपोलदेशविनिर्गलत्कजलदूषिताश्रु ॥२॥ अभिलाषभवो यथास्वप्ने ममासीनयनाभिरामा कामातुरस्य प्रसरत्कुचश्रीः । जीवामि चेत्सा तरुणी भुजाभ्यामालिङ्गति प्रतिधरा मृगाक्षी ।।
For Private and Personal Use Only