________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्री अलङ्कारमण्डनम्. विश्लेषो यथा- बुद्धिशक्ती अनन्ते ते । इति अश्लीलता यथा
रम्या वागण्डजोत्तमे ...............।
भक्तिश्च भवतोऽनन्तपदभक्तस्य किं पुनः ॥ २७ ॥ विरुद्धवर्णम्-वीररसोत्कर्षदा वर्णाः शृङ्गारे, शृङ्गारोत्कर्षदा वीरे च।
उदाहरणं यथाकालिन्द्यां सह कृष्णेन दृप्तकन्दर्पकुईनम् । हरिणाक्ष्योऽधिकाङ्क्षन्ते कटाक्षक्षेपदक्षिणाः ॥२८॥
अत्र कठिना वर्णा न भव्याः । तथा चवीरे-नृसिंहकरजावल्या शोणितौधेन शोणया।
रत्नपत्क्येव रुरुचे हिरण्यकशिपोरुरः ॥२९॥
अत्र बन्धशैथिल्यम् , मृदुवर्णना च न भव्या, बन्धशैथिल्यात् , वीररसत्वात् ॥ समाप्तपुनरात्तं यथा
कमलोडीनमधुपः कज्जलांशुरिवोद्धतः । कुरङ्गलोचनापाङ्गः पातु वोऽनङ्गसायकः ॥ ३०॥
अत्र 'कुरङ्गलोचनापाङ्गो वः पातु' इत्यत्रैव समाप्तम् , पुनश्च अनङ्गसायकः' इति कथिते पुनरात्तम् ॥ भग्नप्रक्रमम्-भग्नः प्रक्रम आरम्भो यत्र, तत् । यथा
प्राणेश्वरो गन्तुकामो यास्यन्ति मम चासवः । कर्तव्यं किं मया देव ! शिशिरे मदनोत्करे ॥ ३१ ॥
अत्र 'प्राणा अपि गन्तुकामा' इति भाव्यम् ॥ अक्रमम्-न विद्यते क्रमो यत्र, तत् । यथा
द्वाविमौ दुःखितौ लोके हितायान्यस्य देहिनः । साधुश्च मधुरालापी दुर्वचाश्च खलो जनः॥ ३२ ॥
For Private and Personal Use Only