________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६
श्री अलङ्कारमण्डनम्.
नेयार्थम् – स्वमतिप्रकॢप्तार्थम् । यथाबधान तुरगं चन्द्रचूडे मूढ ! विशेषतः ।
क्षणं प्रक्षाल्य वदनं शीतलं विपिनं पिब ।।
अत्र ''चन्द्रचूडस्य स्थाणु: ' इत्यभिधानम्, अनेन स्वमत्य * स्थाणौ हयं बधान ' इति कथयति ॥
क्लिष्टम् - यस्यार्थः कुशेनावगम्यते । यथा-सैंहिकेयाभिधानं यद्दधाति तदरिप्रभा ।
सन्दिग्धं यथा-
१० ॥
जयत्यानन्ददा नित्यं कामिनां भुवनत्रये ॥ ११ ॥
अत्र 'राहोरभिधानं तमो दधाति, तमसो वैरी चन्द्रः; तस्य प्रभा' इति ।
स्नेहोल्लासेन वर्द्धन्ते बालकास्तव भामिनि ! ।
किं पुनर्भाक्ति नम्रास्ते चण्डि ! चण्डाट्टहासके ! ॥ १२ ॥ अत्र ' अर्भकाः ? किंवा कचाः ? ' इति सन्दिग्धः ॥
श्रुतिकटु - निष्ठुराक्षरत्वात्कर्णोद्वेजनम् । यथा
निर्मृष्टतरुणीगर्वदुष्टपुष्टमनेोभुवा ।
परपुष्ट विघुष्टेन मूर्च्छिताः पथिकाङ्गनाः ॥ १३ ॥ अप्रयुक्तम् - यथोचितार्थमपि कविभिरप्रयुक्तम् ।
जुहोति चन्द्रस्य चकोरी यतोऽन्यदस्या न हि पारणार्थे । चन्द्रोऽपि तस्या हरति प्रपीडां परस्य सन्तोषकरा हि सन्तः । १४ अत्र ' जुहोति ' इति भक्षणार्थे केनापि न प्रयुक्तः ॥
असमर्थम् - यस्मै प्रयुक्तमर्थं वक्तुमसमर्थम् । यथा
यथाविधि विधिज्ञाता ज्ञातॄणां धुरि पूजितः । जुहोति गां द्विजायासौ राजा धर्मपरायणः || १५ ॥ अस्य ' हवनार्थे प्रसिद्धिः, तमेवार्थं वक्ति, न तु दानार्थम् इति । अत अव ' ब्राह्मणाय गां ददाति' अमुं वक्तुमसमर्थम् ॥
For Private and Personal Use Only