________________
Shri Mahavir Jain Aradhana Kendra
४
पाञ्चालीमाह
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्री अलङ्कारमण्डनम्.
अलिमालेव तरला सरलौ दृग्विलासिनि । कोकिलाला मधुरा वाचा ते वरानने ! ।। १२ । जिनपादाब्जभृङ्गेण मण्डनेन विनिर्मिते । आदिमोऽयं परिच्छेदो गतोऽलङ्कारमण्डने ॥ १५ ॥
२.
अथ दोषानाद
यज्ज्ञानेन विना काव्यं यद्रत्नमिव नो जनाः । गृह्णन्ति दुर्निरीक्ष्यांस्तानादौ दोषान्वदाम्यहम् ॥ १ ॥ दोषास्त्रिविधा विज्ञेयाः पदवाक्यार्थसंभवाः । पददोषास्तत्राऽश्लीलमप्रतीतं हतार्थकम् ॥ २ ॥ अविमृष्टविधेयांशं च्युतसंस्कृत्यवाचकम् । ग्राम्यानुचितनेयार्थ क्लिष्टसन्दिग्धमेव च ॥ ३ ॥ श्रुतिकट्वप्रयुक्तं चाथासमर्थ निरर्थकम् । विरुद्धमतिकृत्तं तु समासगतमुच्यते ॥ ४ ॥ उदाहरणानि -
अश्लीलं यथा - लज्जानिन्दाऽशुभार्थप्रकाशकम् । यथाकूपकान्तर्गतो धीमान्पयो गृह्णाति शीतलम् । तन्वङ्गयाः केशराजीयमिन्द्रनीलधनुष्प्रभम् ॥ १ ॥ कश्चित्सुरुचिराचारः सततं सर्वसंमतः । धर्मार्थकाममोक्षाणां धर्मात्मा पञ्चतां गतः ॥ २॥
अतीतम् - यन्न सर्वत्र संमतम् । यथा
सदा सदाहारविहारशीलनं विहाय धृत्वा तरुवल्कलानि च । वने वसन्श्वापदवृन्दमध्यगो निराशयो योगिजनो न सीदति ॥ ३ ॥
For Private and Personal Use Only