________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्य ग्रन्थावली.
( ९ )
सङ्घाधिपो मण्डननामधेयो विद्योतते याचककल्पशास्त्री ||२२|| विहायितं वर्णितमात्मशक्त्या मया श्रुताविष्कृतबुद्धिनाऽस्य । अथोच्यते त्वन्यतरत्प्रमेयं शृङ्गारपूर्व खलु वर्णनं सत् ॥ २३॥ इति विमलकलानां पोषको याचकानां द्रविणवसनमानैस्तोषकः सत्कवीनाम् ।
वचनशरणभाजां रक्षकखासितानां
स जयति गुणवर्यो मण्डनो मन्मथाभः ॥ २४ ॥ इतिश्रीकाव्यमनोहरे महाकाव्ये महेश्वरकृतौ श्रीमण्डनत्यागवर्णनो नाम द्वितीयः सर्गः ॥
उच्यतेऽथ मया त्वस्य गरिष्ठालयवर्णनम् । तद्वत्तदनु लावण्यं कामिनीकुर्द्दनं तथा ॥ १ ॥ निर्मितं शिल्पिकारैस्तत्सूत्रधारणकोविदैः । अन्तःपुरं ततो न्यस्तं तत्पार्श्वे चोपकारिका || २ || चित्रशालागृहं कोणे वामे दक्षिण के परम् । रचितं स्तम्भसंलग्नै रम्यं कृत्रिमपुत्रकैः ॥ ३ ॥ पुरतो वाजिशालास्तु कृताः शिल्पविचक्षणैः । राजमानाः शुभैः स्तम्भैर्महितैश्चारुचित्रितैः ॥ ४ ॥ महानसं पृष्ठतस्तु तदग्रे भोजनालयम् । पानीयशालिकोपेतं कृतं तैः शिल्पिभिः शुभैः ॥ ५ ॥ महद्यत्नकृतं तस्य सञ्च्चामीकरराजितम् । सभागृहं तु सर्वाग्रे संवृतं कोशमन्दिरैः ॥ ६ ॥ प्रासादो रचितश्चाराचानाकुशलिभिः शुभः । गुरूणामपि देवानां पूजनार्थमहर्निशम् ॥ ७ ॥ एवमन्तःपुरं चारु रचितं सूत्रधारकैः । तहतोत्तमनेपथ्यैः पश्चाचित्रविचित्रितैः ॥ ८ प्राङ्गणं काचबद्धं च गृहान्तर्भूमिका तथा ।
For Private and Personal Use Only