________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( ३४ )
श्रीचम्पूमण्डनम्. गलदहलशोणितरञ्जितरैवतपर्यन्तमार्गा'हादेव' इत्यार्तस्वरां सुकुमारां राजिमतीमतिविवशां हृदयान्तराले ध्यानाधीनभर्तृपदयुगलं चिन्तयती ज्ञानदृशा विलोक्य नेमिः करुणापरायणः सेवकलोकशोकहरणः प्रकटीबभूव । मपि चतस्य वीक्ष्य शशिबिम्वविनिद्रं प्रस्फुरदद्युतिमयूखविभूषम् ।
सुस्मितं वदनमाशु मुमोच क्लेशमन्धतमसं सहसा सा ॥१॥ अपि च
तेन साकमिति सा च बभाषे संनिपत्य पदपङ्कजमूले ।
अष्टजन्मजनितो ननु सार्थः त्यज्यते किमधुना किल नाथ॥२॥ अपि चबाले ! बालमृगाक्षि ! मा कुरु मृषा दुःखाभिभूतं मनः
पूर्व चापि तपश्चचार भवती सार्दै मया तत्स्मर । आत्मज्ञानमुपेत्य सत्यवचसा श्रीनेमिना नोदिता
प्राप्ता राजिमती परं पदमथो नेमिः स्थितो रैवते ॥३॥ मुमुदे तत्र तुङ्ग स शृङ्गमारुह्य भूपतिः । विडम्बयन्भानुविम्बगुदयाचलसंस्थितम् ॥ ४ ॥ अपि चनिःस्नेहोऽप्यक्षयज्योतिर्निर्दशोऽपि दशान्तरम् । आदधानो महाधर्यः शून्यदीप इवावभो ॥५॥ अन्तर्लीनमहाज्योतिर्निश्चलः शिखरे गिरेः । कुन्दद्युतिः शरत्काले विद्युद्गर्भ इवाम्बुदः ॥ ६ ॥ अपि चतृष्णाहरो निराधारो जीवत्राणपरायणः । कृपाजलभराधारस्तडाग इव निर्मलः ॥ ७ ॥
For Private and Personal Use Only