________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( ३२) श्रीचम्पूमण्डनम्. अपि चप्रिय ! शून्यमिदं त्वया विना यदुराजन्यमवेक्ष्यते जनः ।
जलसेकविवर्जितं स्थले कमलानामिव वृन्दमाकुलम् ॥४॥ अपि चउपलादपि योषितः परं कठिना इत्यवगम्यतेऽधुना । तव निर्गमशोकयन्त्रिकानिहतं मे हृदयं न भिद्यते ॥५॥ इति बहु विलपन्ती राजिमत्याकुलाङ्गी
नयनयुगलनीरैः पङ्किलीभूतभूमिः । अगमदनु च नेमि तं स्मरन्ती च चित्ते · द्युतिरिव नलिनीशं प्रस्थितं पश्चिमायाम् ॥६॥
प्रचण्डमार्तण्डकरातपतप्तशर्करिलज्वलदिलातलजनितस्फोटदूषिताभ्यां पद्भयां स्खलन्ती राजिमती पृष्टत आयान्तीमालोक्य कूर्मकवचकठिनहृदयो नेमिर्मुहुः पलायनपरो बभूव ।।
अन्यच्च-तस्मिन्वने विशीर्णद्रमपर्णराशिक्लिप्तमार्गप्रदेशे अज्ञातमार्गा मुक्तकेशी सा दुःखिता टिट्टीभीव पटुना शद्वेन पुनर्विललाप कम्पमाना शोकस्फुटितहृदया। अपि च
चलानिलान्दोलितपल्लवं त्यजनिजं तारतुषारवाष्पतः तदुःखतोऽतोषधरं रुरोद किं निशम्य परिदेवनं वनम् ॥१॥ अपि च
रैवतकगिरेरुपान्तं प्राप्तो नेमिस्ततो ददर्श, हृदयामरकं वनम्, चश्चरीकचरणदलितदलकनकचम्पकबहुलमुकुलबहुलसमुच्छलितरजःपुञ्जपिञ्जरिततरुवलयमलयपवनमन्दमन्दान्दोलितमाकन्दराजिमञ्जरीपल्लव गल दमल मकरन्द लव कृता स्वाद मुदितमेदुरभ्रमदलसविलसद्भुमरमधुरझाङ्कारदुःखविकारहारि, कुसुमभरामितनमिततरूवरच्छादित धरातल समासीनकिन्नर गणवीणा
द
For Private and Personal Use Only