________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली; ( २९ ) श्रीमन्मण्डनविन्दुना विरचिते श्रीमालवंशेन्दुना
चम्पूमण्डननामनीह पटलो ग्रन्थेऽभवत्षष्ठमः ॥ अपि च
ततो लुलद्विचित्रपत्रपाश्याः, शोभिमुक्ताफलवालपाश्याः, भूषाभूषितशिरोरुहाः, महतां महिलाशालिन्यः, प्रोल्लीलवाहीकगन्धसारघनसारसारगन्धबहलिताः, पतिव्रताः पुत्रवत्यः सत्यवचना उदर्तनाभ्यङ्ग राजिमत्यै चक्रः, शातकुम्भकुंभनिर्मलजलवर्षिभिश्चतुर्भिः । सा च राजिमती दिग्वनीताप्रान्तमिलि. तचतुरम्बुदाम्बुधारासिक्तकाञ्चनवल्लरी इव सुन्दरी व्यरुचत् , अन्तर्मिलजलबिन्दुचारुचन्द्रककबरीकलापधरी मयूरी इव निर्भरमानन्दभरिना नेमिकान्ताम्बुवाहोदये महोत्साहमये अच्छतरांशुका निर्णीरितशरीरा स्फुरदुरुचामीकरकान्तिः विमुक्तविलम्बमानलम्बालकमकरा चरन्ती काञ्चनकमलिनी इवोपरिमिलत्पटलितरोलम्बमालिकासमुहा।
अपि चततस्तरलितमना अपि सा प्रसादसुमुखी चन्द्रमुखीभिः परिकर्मनर्मधारिणीभिर्धर्मचारिणीभिस्तिरस्करिणीमाबध्य चकितहरिणीविशाललोचना। .. इति व्यतिकरे निष्पादिताद्वर्तनकलधौतकलशस्नाननेपथ्यविधानः, स्वरूपसम्पन्निधानविधुरितमथुरा पुरवधूसमालोकनदरिद्रमुद्रनयनमहादरिद्रः, ताण्डवितरत्नकुण्डलकान्तिमण्डलमण्डलितकपोलस्थलः, स्फुटद्रत्नकिरीटज्योतिष्पटलपटलितछत्रतलः, नभःखण्डसङ्गतमार्तण्डविडम्बिशरीरः, स्फुरच्छरीरमरीचिवीचिकासमीचीनमाणिक्यसुवर्णालङ्कारः, नेमिनाथस्तुङ्गं तुरङ्गमारुरोह मोहनमूर्तिर्जननयनानाम् । अपि चपटुतरपटहानां झल्लरीमर्दलानां
For Private and Personal Use Only