________________
Shri Mahavir Jain Aradhana Kendra
wwww.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandie
गधबद्धश्री मलयसुन्दरीकथा ॥
नासिक ! त्वयैव गृहीतमस्ति, किं नार्पयसि ?" स मौनेन स्थितः । ततः प्रियमित्रोण साम-दण्ड-भेदादिभित्विा भद्रापार्थात् तद्गृहीतम् । तेन हेतुना तेन भूतेन कनकवतीनासिका गृहीता, कनकवती च च्छिन्ननासाऽभूत् । कुमारोऽपि सुन्दरं प्रति दुर्वचनाद् वटे उद्धद्धः । साधुं प्रति राक्षसादिदुर्वचनादिभाषणाद् मलयसुन्दर्या राक्षसीकलङ्कोऽभूत् । पूर्व मलयसुन्दर्या असुना कुमारेण च सुसाधुभ्यो दानं ददे, जिनधर्मश्च पालितस्तेनाभ्याम् उत्तमकुलादिका सर्वसामग्री प्राप्ता । तथा मलयसुन्दर्या स यतिराक्रुष्टः, 'स्वबन्धुभिः साधं तवैव विप्रयोगोऽस्तु, त्वं राक्षस'इत्याद्याक्रोशवचनैर्भाषित्वा श्रीन वारान् लेष्टुप्रहारैर्मुनिराहतः, महाबलोऽपि अनुमोदयन् मौनेन तस्थौ, तत आभ्यां दृढं पातकमर्जितम् । तस्याऽनुभावतो द्वयोनिजलोकेभ्यस्त्रीन् वारान् वियोगोऽजनि । यद् मलयसुन्दर्या साधो रजोहरणं गृहीतं तेन कर्मणा अस्य बालः श्रेष्टिना गृहीतः । एवं पूर्वभवकर्मफलमुपस्थितम् । स एवाई साधुश्छिन्नकर्मा केवली जातोऽस्मि । मम स एव भवः, अनयोद्वितीयोऽभूत्” । इति महाबल-मलयसुन्दरीचरित्र श्रुत्वा सूरपाल-वीरधवलौ भवनिर्विष्णौ प्रोचतु:-'प्रभो! दीक्षा ग्रहीष्यावः' । 'मा प्रतिबन्धः कार्यः' इति साधुनोक्तं नृपो स्वस्थानं गतौ। मूरपालेन पृथ्वीस्थानराज्यं महाबलाय दत्तम् । वीरधवलेनापि तत्रैव स्थितेन स्वराज्यं मलयकेतवे पुत्राय दत्तम् । ताभ्यां पत्नीयुताभ्यां महोत्सवेन केवलिपार्श्वे दीक्षा गृहीता, समये च दिवं ययुः । महाविदेहे सिद्धि प्राप्स्यन्ति ।
॥६२ ॥
For Private And Personal Use Only