________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
मुखं स्वस्थाने कृतम् । अथ यामि' इति सिद्धेनोक्ते राज्ञा प्रत्युत्तरेऽदीयमाने वाजिशालायां वह्निर्लग्नः । राज्ञोक्तम्'मम पट्टतुरङ्गमं ज्वलन्तं वह्निमध्याद् निष्काशय' । इति श्रुत्वा सिद्धो बलौ झम्पी दच्या क्षणात् स्वर्णपर्याणभूषिताऽश्वारूढो दिव्यशृङ्गारः समेतः । सर्वेषां चित्र जातम् । राज्ञा पृष्टम्-'कथं समेतः ?' । सिद्धेनोक्तम्-'महाप्रभावोऽयं वह्निः, योऽत्र प्रविशति स एवं विधो भूत्वा समेति' । इति श्रुत्वा सर्वः कोऽपि प्रवेष्टुं सजोऽभूत् । सिद्धेनोक्तम्-'पूर्व राजा मंत्री च गच्छता, शेषाः क्षणं प्रतीक्षध्वम्' ततो नृप-मंत्रिणौ वह्नि प्रविष्टौ । क्षणान्तरे लोकेनोक्तम्-'किमद्यापि नागच्छताम् ? । तेनोक्तम् -'समेष्यतः । घटीचतुष्केऽप्यतिक्रान्ते तो नागतौ । लोकेनोक्तम्-'को हेतुः । तेन हसित्वोक्तम्-'भो ! अहं देवसान्निध्याद् निर्गतोऽस्मि । तौ तु वहनि गतौ अनश्यताम् । अन्यायद्रुमोऽनयोः फलितः । ततः सर्वलोकैस्तत्र स एव राजा स्थापितः । शत्रन् जयन् "सिद्धराज' इति नाम्ना ख्यातो राज्यमपालयत् । 'स्मृतेनागन्तव्यं त्वया' इति विसृष्टो व्यन्तरो ययौ ।
अन्यदा बलसारोऽपि देशान्तरादागतः, प्राभृतं कृत्वा सिद्धराजमुपतस्थौ । तेन तस्य वामाङ्गस्था मलयसुन्दरी दृष्टा, तयाऽपि स उपलक्षितः । स च राज्ञा भाषितः शङ्कितः स्वस्थानं ययौ। मलयसुन्दर्या प्रियस्याग्रे तस्य स्वकीयकदर्थना-पुत्रहरणस्वरूपं प्रोक्तम् , तदा राज्ञा स सकुटुम्बो धृतोऽचिन्तयत् -' पृथ्वीस्थानेशः सूरपाल:, चन्द्रावतीशो वीरधवलश्च' एतो द्वौ परिचितो वर्तते । एतत्पुराधिपेन च सह तयोः सदैव बरं वर्तते । ततस्तयोरेव ज्ञापयामि, अष्टाष्टौ द्रम्मलक्षाणि द्वीपानीतांश्चाष्टौ गजान ददामि, स्वं च मोचयामि' । इति विचिन्त्य सोमनामा कोऽपि
गधबद्धश्री मलयसुन्दरीकथा ॥
For Private And Personal use only