SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir प्रति झम्पा दातव्या । एवं फलान्यानीय भूभुजे देहि, येनास्य पित्तमुपशाम्यति' । सिद्ध इति श्रुत्वा शिरो धूनयन् , 'अहो ! क्षुद्रादेशः !' इति चिन्तयन् , 'अत्र कापि मतिर्नास्ति, मृत्युरेवास्ति । यदि वाऽप्राप्तभार्यो व्रजामि तदापि मृत्युरेव, द्विधापि तद्भावे साहसमेव वरम्' इति ध्यात्वा, 'अवश्यं करिष्यामि ते कार्यम्' इत्युक्त्वा, राजनरेष्टितः स चलित: । पौरलोका हाहावं कुर्वन्ति । पर्वते चटित्वा चूतं प्रति झम्पां दचा अदृश्यश्चाभूत । लोकैश्चिन्तितम्-'अस्थीनि पृथक पृथग भूत्वा गतानि' । सर्वः कोऽपि सदुःखो गृहमागात् । । प्रातः स एव सिद्धः शीर्षे फलभृत्करण्डं बहन जनानां कौतुकं दर्शयन् राजसभामागात् । राजा विस्मितः । सोऽपि नृपमनुज्ञाप्य फलद्वयं गृहीत्वा करण्डं तथैवाच्छाद्य प्रतीक्ष्यः क्षणम्, आगच्छन्नस्मि' इत्युक्त्वा मलयसुन्दरीपार्श्व गतः । सा प्रीति प्राप्ता । फले दत्ते । निविष्टं च सा प्राह-'प्रिय! कथय, कथं कार्य सिद्धम्'? स प्राह-'भृणु, यो योगी मे पूर्वपरिचितः स मृत्वा तत्राने व्यन्तरी जातोऽस्ति । तेनाई पतन् दृष्टवा कराभ्यामुत्पाव्य भव्ययुक्त्या वृक्षे स्थापितः । उपकारवार्तया रात्रिर्गता । प्रातय॑न्तरेणोक्तम्-'किं ते पतनकारणम् ?' | मया स्वरूपे प्रोक्ते तेनोक्तम्-'राजा त्वां हन्तुमिच्छति ततोऽहं नृपमेव हन्मि' । 'मयोक्तम्-' यदि अस्मिन् कार्ये कृते सति स बुध्यते तदा कि हन्यते ?' । तेनोक्तम् -' त्वया विषमकार्य स्मर्योऽहं, सर्व करिष्ये' । ततस्तेन कुतोऽपि करण्डकमानीय फलैः प्रपूर्य सुखेन पुरसमीपमानीतः। प्रोक्तं च'अहम् अदृश्य एव त्वया सह सभां गमिष्यामि' । ततोऽहं करण्डं सभायां मुक्त्वा त्वन्मुदेशागतोऽस्मि । गद्यबद्धश्री मलयसुन्दरीकथा ॥ For Private And Personal use only
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy