SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra iwww.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir अथ कियत्सु दिनेषु महाबलो भिल्लं जित्वा प्राप्तः । पितरं नत्वा स्वगृहं प्रति गच्छन् पित्रा चाहौ धृत्वा मलयसुन्दरीस्वरूपं बभाषे । तच्छुत्वा वज्राहत इवाऽत्यन्तदुःखी असम्भाव्यं तच्चिन्तयंस्तं पाह-' हे तात ! धातुविपर्यासः किं तेऽभूत् ? । यद्यपि सा तादृशी दृष्टा, तथापि ममागमं यावत् कथं न प्रतीक्षितम् ? तात ! या स्त्री छिन्ननासा भूरिकूटानां निधिस्तन्मूलमहं पुरापि वेनि । सैव दर्यतां यथाऽहं तां पृच्छामि' रानोक्तम्-'सा तु न लभ्यते ' ततः कुमारो निःश्वसनिजगृहमागात् । पुत्रवत्सलो राजाऽपि तत्पृष्ठतः समेत्य प्राह-वत्स ! वधू रात्रौ राक्षसीरूपेण भ्रमन्ती मया दृष्टा, तत ईदृशं दण्डं कुर्वतो न मे कश्चिद्दोषः, यत इष्टाऽपि विनष्टा भुजा च्छिद्यते । तत् कुमार ! मा ताम्य, स्वस्थं मनः कृत्वा स्वं गेहसारं साम्प्रतं पश्य' । इति वदन सपरिच्छदो राजा पुत्रेण तालकान्युद्घाटयामास । एवं कुर्वता मञ्जूषाया अपि तालकमुद्घाटितम् । तत्र सा पापिष्ठा विवस्त्रा राक्षसीरूपा मुत्कलकेशा कतिकाधारिणी बुभुक्षाक्षामा दृष्टा । सर्वेऽपि भीता इव जाताः । कुमारेणोक्तम-'तात! दुष्टयाऽनया राक्षसीरूपं कृत्वा तव चित्ते प्रत्ययमुत्पाद्य सा निष्काशिता'। ततः सा दुष्टा मातो निष्काश्य गाढं ताडिता सती सर्व स्वकृतचेष्टितं प्राह । राज्ञा सा खरमारोप्य पुरे भ्रमयित्वा स्वदेशानिगमिता । कुमारः प्रियाविरहाच्चतुर्विधाहारं त्यक्त्वा मर्तु कामो मौनेनाऽस्थात् । राजा राज्ञी चाऽपि तेन मर्तुकामौ गद्यबद्धश्री मलयसुन्दरीकथा ॥ For Private And Personal use only
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy