________________
San Aradhana
www.kobatirth.org
Atharv
a ssadasnya
॥ ४२ ॥
2
तथैव दृष्टम् । ततः कुमारेण मन्त्रसाधनस्थानं दर्शितम् , तत्र वह्निकुण्डे योगी स्वर्णपुरुषो दृष्टः, राज्ञा गृहीतः ।
अथ राजा मलयसुन्दरीसहितं स्वपुत्रं सह गृहीत्वा महोत्सवेन स्वसौध प्राप्तः । दश दिनानि महोत्सवा जाताः । मलयकेतुरपि भगिनीं भगिनीपतिं च शोधयन् तत्र समेत्य भूपं नत्वा निविष्टः । पृष्टः सन् आगमनकारणं प्राह । राज्ञा स्वरूपे प्रोक्ते प्रमुदितो भगिन्या महाबलस्य च मिलितः। परस्परं वार्तालापो जातः। कियन्ति दिनानि सगौरवं स्थित्वा कथश्चित् सर्वान अनुज्ञाप्य मलयकेतुश्चलितश्चन्द्रावतीं पुरीं प्राप । तत्र स्वरूपे प्रोक्ते सर्वः कोऽपि प्रमुदितः । पृथ्वीस्थानपुरे महावलस्य मलयसुन्दर्या सह क्रीडतः सतः सुखेन कालोऽतिचक्राम ।
अन्यदा महाबलो मलयसुन्दरी च गवाक्षनिविष्टौ स्वगृहद्वारागतां तां छिन्ननासिकां ददृशतुः । तां दृष्ट्वा सम्यगुपलक्ष्य च प्रिया प्रियं प्रति प्राह-'प्राणेश ! एषा ममापरमाता कनकवती' । कुमारेणोक्तम्'यस्या रुदितं श्रुत्वा त्वां कदलीगृहे मुक्त्वा चलितोऽहं सैवेयम् , ततोऽहं स्वरूपं पृच्छामि । प्रिययोक्तम्'अहं तवादेशाद् जवनिकान्तरिता शृणोमि' । ततः कुमारेण तस्याम् 'अपटयन्तरे स्थापितायां प्रतीहारनिवेदिता सा छिन्ननासा समेता, आशिषं च दचा निविष्टा । स प्राह-'कथ्यतां स्वस्वरूपम् ' । साऽवक-' श्रूयतां, चन्द्रावतीशवीरधवलस्याहं भार्या कनकवती । केनाप्येवमेव नृपमनसि कोपोऽभूत् , अहं नष्टा, मगधावेश्यागृहं प्रविष्टा । तत्र केनापि घुर्तेन भट्टारिकागृहं सङ्केतस्थानमानीता । तत्र तेनोक्तम्-'अत्र चौराः सन्ति ' इति ।
गद्यबद्धश्री मलयसुन्दरीकथा ॥
१. जवनीकान्तः ।
For Private And Personal Use Only