________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
अहम्तृतीययामे तलारक्षः कापि लब्धः, राज्ञा च घातितः । अहं स्नेहेनागताऽस्मि, जाने अस्य मुखं चन्दनेन विलिम्पामि । परम् एनं प्राप्तुं न शक्नोमि, ततो रोदिमि' । कुमारेणोक्तम् - तर्हि मम स्कन्धमारुह्य वाञ्छितं कुरु' । ततः सा तस्य स्कन्धमारूढा शवमुखं मुखेन प्रष्टुं लग्ना, तदा शवेन तस्या नासिका मुखेन गृहीता । तस्याः सीत्कारं कुर्वत्या इतस्ततो मुखं कुर्वत्या नासा त्रुटिता, अग्रभागः शवमुखे स्थितः । अथ कुमारस्य तत्पश्यतो हास्यमागतं, तदा शवेनोक्तम्-'हे ! हास्यं मा कुरु, त्वमप्यत्रैव वटे उल्लम्बयिष्यसि' । अस्मिन्नवसरे राज्ञोक्तम्-'वत्स ! शवः कथं वक्ति ? । तेनोक्तम्-'तात ! कोऽपि व्यन्तरो वक्ति' । ततः 'स भीत: स्थितः । साऽपि तस्य स्कन्धादुत्तीर्णा पप्रच्छ-'कस्त्वम् ? व वससि ? । कुमारेण स्वस्वरूपे प्रोक्ते सापि प्राह-नासायां रूढायां सत्याम् अहं ते मिलिष्यामि, चौरहृतं च सर्व दास्यामि' । ततः सा गता । कुमारी वटोपरि चटित्वा शवबन्धान् छोटयित्वा, तत्केशान् गृहीत्वा, उत्तीर्य, शवं स्कन्धे कृत्वा योगिनः पार्श्वे मुमोच । ततो योगी शवं स्नपयित्वा, चन्दनद्रवैश्वचित्वा, अग्निकुण्डसमीपे मण्डलं स्थापयित्वा मंत्रं सस्मार। शव उल्ललति, परं वह्निकुण्डे न पतति । एवं रारतिक्रमे शवोऽट्टाहासं मुश्चस्तत्रैव वटे गतः । योगिनोक्तम्- "किमपि मे स्खलनमागतं, ततः कार्य न सिद्धम् । पुनरागामिन्यां रात्रौ साधयिष्यते । परं यदि दिने कोऽपि त्वां मम पार्श्वे द्रक्ष्यति तदा स चिन्तयिष्यति-योगी राजकुमारं विप्रतार्य याति'।।
गद्यबद| श्री मलय.
सुन्दरीकथा ॥
१. कुमारः
For Private And Personal use only