SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गद्यबद्ध - श्री मलय सुन्दरी कथा ॥ ॥ ३६ ॥ XOXOXX www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कथितं न कोऽपि प्रत्येध्यति, अतो मौनतथा स्थेयम् । इति विचिन्त्यासौ मौनेन स्थिता । पुनः पुनः पृच्छयमानावादीत् - 'महाबलो मे मित्रं, तेनाभरणादिकं दत्तम्' । राज्ञोक्तम्- 'तर्हि स क्वास्ति ?' । तयोक्तम्- 'सोऽत्रैन क्वापि स्वेच्छया चरन्नस्ति' । राज्ञा चिन्तितम् -'यदि पुत्रस्य मित्रं भवेत् तदा कोऽप्येनं नोपलक्षयेत् ? । कुमारोयत्रैव पूरे स्थित इत्ययं वदति, परं स तु क्वापि नोपलभ्यते, ततोऽयं न घटते तन्मित्र, परन्तु येन कुमारस्य वस्त्र - कुण्डलादिकं हृतमासीत् स एवायं चौरः । अथवा यो लोभसाराभिधचौरो वटवृक्षे उद्बद्धस्तस्यैव भ्राता सम्बन्धी वा । नूनमेतैरेव मम पुत्रोऽपि हतो घटते' । इति विचिन्त्य तलारक्षेण प्रकटा चिन्तितवार्ता कथापिता । सर्वैरपि कथितम् -'सत्यमेव, अल्पवक्तारथौराः स्युः । राज्ञोक्तम्- 'सोऽयं मे वैरी बहिनवा हन्यताम्' । इति श्रुत्वा मलयसुन्दर्या चिन्तितम् - 'विषमं सङ्कटं पतितं किं करिष्यति !' । सा तदा तमेव श्लोकं स्मर्तु लग्ना, तात्रताऽमात्येनोक्तम्- 'प्रभो ! रूपवान् सरलः कोऽपि नरोऽयं दृश्यते; ततः सम्यग् न ज्ञातः कथं हन्यते ?, ततोऽयं दिव्यं कार्यते, यदि न शुध्यति तदा हन्यते इत्थं कृते जनापवादोऽपि न स्यात्' । राज्ञोक्तम्- ' भव्यम्, तर्हि कार्यते किं दिव्यम् । सर्वैरपि प्रोक्तम्- 'घटसर्पदिव्यं महत्तरम्' । ततो राज्ञा आभरणादिकं लात्वा तलारक्षैर्वेष्टिता धनयक्षस्य गृहं प्रति चालिता । स्वयमपि यावचलति तावता चेटी प्राप्ता प्राह- 'प्रभो! 'देवी कथयति - न हारो न कुमारोऽपि प्राप्तः । पञ्चमं दिनमद्य जातं, ततोऽलम्बाद्रौ गत्वा 'भृगुपातं करिष्यामि' । राज्ञोक्तम्- 'देव्या अग्रे १ राशी २ पर्वतशृङ्गपतनम् । For Private And Personal Use Only ॥ ३६ ॥
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy