SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra iwww.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गद्यबद्धश्री मलयसुन्दरीकथा ॥ अथ तृतीयो उल्लासः ॥ अथ कुमारः कान्तया सह तदा बहिर्निर्गतः । प्रियां प्राह-रात्रौ बहिः स्त्रीणां भ्रमणं न युक्तम् । इत्युक्त्वा आम्ररसेन गुटिकां घृष्ट्वा तस्या भाले तिलकं कृतम् । सा पुंरूपा तेन कृता । ततस्तो देवकुलं गत्वा तं चौरं शिखरान्निष्काशयामासतुः । कुमारेणोक्तम्-'भीः ! त्वदीयाः सहायका मयोत्तरं कृत्वा अन्यत्र प्रेरिताः सन्ति, त्वं यथेच्छं व्रज' । सोऽपि हृष्टो गतः । अथ तौ पुरो गच्छन्तौ वटोपरि वार्तालापं शुश्रुवतुः । कुमारेणोक्तम् --' प्रिये ! निःसञ्चलतया भाव्यम् । केऽपि वटोपरि वार्ता कुर्वन्ति । तदा लक्ष्मीपुत्रहारः स्वकीयकटयां स्थापितः । तौ वटकोटरे प्रविश्य निश्चलौ स्थितौ । तदा वटोपरिस्थ एको भृतोऽपरान् प्राह-" भोः ! प्रातमहत्कौतुकं वर्तते, श्रृणुत-पृथ्वीस्थानपुरे मुरपालो नाम राजा, पद्मावती राज्ञी, महाबलः पुत्रः । तेन लक्ष्मीपुत्रहारस्य पश्चदिनान्तर्वालनकृते प्रतिज्ञा कृताऽऽसीत् । मात्रापि च प्रोक्तमासीत्-'यदि पश्चदिनान्तहरिं न लप्स्ये तदा मरिष्यामि' । परं कुमारस्य शुद्धिरपि नास्ति । कल्ये पञ्चमं दिनम् । सा राज्ञी जला-ऽग्नि-विषादिना केनापि प्रकारेण मरिष्यति, तस्याः पृष्ठे राजापि मरिष्यति, तदनु जना अपि मरिष्यन्ति" । तच्छत्वा ॥ ३४ ॥ For Private And Personal use only
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy