SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jhin Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagauti ya mandir सा च किञ्चित् सचेतना कुमारोक्तं श्लोकं पपाठ । तदा तु तस्य चित्ते कुमारीनिश्चये सति महत्कौतुकं जातम् । सापि समुन्मीलितलोचना शनैः शनैः सावधाना कुमारमुपलक्ष्य लज्जावती बभूव । ऊचे च-'प्राणेश ! स्वं कुत: ?' तेनोक्तम्-'पूर्वम् आसन्ननदीजले शरीरं क्षालय, पश्चात् परस्परं कथ्यते स्वरूपम् । ततस्तौ नद्यां गत्वा शरीरं क्षालयित्वा तत्रायातौ । कुमारेण स्वस्वरूपे कथिते कुमारी शिरो धूनयति स्म, विषमा दैवगतिः!। अथ कुमारः प्राह- त्वं तत्र सुरक्षिते स्थाने वसन्ती कथमजगरोदरं गताऽसि ?' । सा यावत् किञ्चिद् 18 वक्तुमारभते तावत् कुमारेण तत्र प्रत्यासन्ने मनुष्यसञ्चरं ज्ञात्वा कुमारी प्रत्युक्तम्-'क्षणं मौनेन तिष्ठ । कोऽपि तस्करः पारदारिको उतकारो वा रात्रौ सश्चरन्नत्र आयाति' । ततः कुमारेण शीर्षाद् गुटिका आकृष्य आम्ररसेन घृष्टा । तत: कुमार्या भाले तिलके कृते पुरुषरूपां जातां दृष्ट्वा तां प्रत्युक्तम्- ' यावदहं निष्ठ्युतेन तिलकमिदं न प्रमार्जयिष्ये तावत् त्वं पुरुषरूपैव द्रक्ष्यसे । एवं तौ यावत्तत्र निश्चलौ स्थितौ तावत् तत्रैका स्त्री कम्पमानाङ्गी तौ दृष्ट्वा च विशेषतश्चकिता समेता । कुमारेण भाषिता-' भद्रे ! का त्वं ? कि मीतेव दृश्यसे ! । आवां पथिको, किश्चिन्न जानीवस्ततः पृच्छयते' । सा पाह- " भोः क्षत्रियो ! एषा गोला नदी । अनासन्न चन्द्रावती पुरी । तत्र वीरधवलो नाम राजा । तस्य मलयसुन्दरी कन्याऽस्ति । तस्या अपरमाता कनकवती तां प्रति मात्सर्य धत्ते । अहं च तस्या महल्लिका सोमाभिधानाऽस्मि । दिनत्रयात् पूर्व गद्यबद्धश्री मलयसुन्दरीकथा ॥ १. अन्तःपुरचरा-दामी ॥ For Private And Personal Use Only
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy