SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Matavin Andhana Kendra www.kobatirth.org Acharya Shri Kailasagasti Gyanmandir तमेव हृदि मन्त्रसदृशं स्मरन्तीं तां कन्यां स ददर्श । साऽपि सानन्दा तं दृष्ट्वा सहसोत्तस्थौ । आसनं दवा तमूचे-'अहो ते धीरता ! । कथमत्र सुरक्षिते स्थाने समागमनं जातम् ?' । सोऽवादी "उत्कटकण्टके कोटघर्षणकष्टानि हृदि न चिन्तयति । असदृशरसविवशमतिर्विशत्यलिः केतकीकुसुमम" ॥१॥ " त्वया च स्वस्वरूपमुक्तम् । मदीयं श्रृणु-अहं पृथ्वीस्थानपुरे मुरपालनृपस्य पुत्रः पद्मावतीकुक्षिजातो महाबलाभिधानोऽस्मि " । साऽवादीत् - ' तर्हि यदा त्वं पूर्व मया दृष्टस्तदैव पूर्वभवसम्बन्धेन केनापि प्रेरितया मनःसाक्ष्यं वृतोऽसि । साम्प्रतं गान्धवविवाहेन अङ्गीकुरुष्व' । तदा तेनोक्तम्-'कुलकन्यानां प्रच्छन्नो विवाहो न शोभते. इति धीरत्वं भज । अहं तथोपक्रम करिष्ये यथा स्तोकदिनैः पितदत्तां त्वां परिणेष्यामि । “विधत्ते यद्विधिस्तत् स्याद् न स्याद् हृदयचिन्तितम् । एवमेवोत्सुकं चित्तमुपायांश्चिन्तयेद् बहून्” ॥ १ ॥ ___अयं श्लोकस्त्वया चिन्तानिवारणाय सदा चिन्त्यः' । तया प्रपन्नम् । यावद् एवं तौ प्रीत्या वार्ती कुरुतस्तावता कनकवती द्वारपाश्चेस्थिता प्रच्छन्नं सर्व तच्छ्रुत्वा कपाटद्वयमाकृष्य तालकं ददौ । सा च कुमाय १. गुप्तः । २. उपक्रमम्-आरम्भम्-उपायम् । गद्यबद्ध| श्री मलयसुन्दरीकथा ॥ For Private And Personal Use Only
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy