________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१
महाविद्याविडम्बनम् । एवमपि मेयत्वादिभिरेतच्छब्दघटनिष्ठैः शब्दनित्यत्वरूपार्थान्तरता तथाविधैवेति तन्निवृत्त्यर्थमेतद्बटनित्यनिष्ठेत्यादिपदोपादानम् । यद्यपि नित्यपदार्थेषु नित्यवृत्तित्वेत्यादि । यद्यपि दृष्टान्तीक्रिय. माणेषु नित्येषु पक्षान्योन्याभावादियों धर्मो विचार्यते स नित्यंवृत्तित्वरहितो न स्यात्, तथाप्येतद्धटनित्यरूपयुगलावृत्तित्वेनैतद्बटनित्यवृत्तित्वरहितो भवत्येव । स च पक्षीकृतघटादन्यत्र सर्वत्र वर्तमानत्वेनैतच्छब्दनिष्ठोऽस्त्येवेति तेन पक्षान्यत्वादिना धर्मेण नित्येषु साध्यानुगमो द्रष्टव्यः । घटान्तरवृत्तित्वरहितेन पक्षीकृतघटैतच्छब्दमात्रनिष्ठवर्मेण अर्थान्तरत्वनिवर्तनायैतदिति पदं द्रष्टव्यम् । एत(टनित्यनिष्ठत्वरहितः एतद्धटावृत्तिर्वा, नित्यवृत्तित्वरहितो वा । आद्यः पक्षे व्याहतः । द्वितीयस्तु पूर्वोक्तः शब्दनिष्ठो धर्मः पक्षे सिध्यन्ननित्यत्वं शब्दस्य साधयेदिति भावः ॥ १९ ॥
___ २० अयं घटः शब्देतरानित्यनित्यवृत्तित्वरहिततच्छन्दनिष्ठाधिकरणं मेयत्वादिति ॥ पूर्वमहाविद्यायामेतद्धटग्रहणस्य यत्प्रयोजनं तदेवात्र शब्देतरानित्यग्रहणस्य । शेषं पूर्ववत् ॥ २० ॥ ___ २० (आनं० )-शब्देतरेति । शब्दादितरस्मिन्ननित्ये नित्ये च ये वर्तन्ते तेषु शब्देतरानित्यवृत्तित्वं धर्मः, तद्रहितश्वासावेतच्छब्दनिष्ठश्च तस्याधिकरणमित्यर्थः । एतच्छब्दनिष्ठाधिकरणमित्युक्ते मेयत्वादिनार्थान्तरमत आह–नित्येति । नित्यवृत्तित्वरहितैतच्छब्दनिष्ठाधिकरणमित्युक्ते नित्येषु साध्यसिद्धिरत उक्तम्-अनित्यनित्यत्तित्वरहितेति । यद्यपि नित्यनिष्ठेषु नित्यवृत्तित्वराहित्यं नास्ति, तथाप्यनित्यवृत्तित्वे सति नित्यवृत्तित्वं नास्त्येव । अनित्यनित्यवृत्तित्वरहिताधिकरणमित्युक्ते घटत्वेन अर्थान्तरत्वमत आह-एतच्छन्दनिष्ठेति । अनित्यवृत्तित्वरहिततच्छब्दनिष्ठाधिकर. णमित्युक्तेऽप्रसिद्धविशेषणत्वम् । न हि शब्दस्यानित्यत्वसिद्धेः प्रागनित्यनित्यबृत्तित्वरहितः शब्दनिष्टः सिध्यतीत्यत उक्तम्-शब्देतति । शब्देतरानित्यनित्यवृत्तित्वरहितैतच्छब्दनिष्ठत्वशब्देतरनित्यान्यत्वमनित्येषु, नित्येषु च शब्देतरानित्यान्यत्वमिति व्याप्तिसिद्धिः । शदेतरानित्यनित्यवृत्तित्वरहितश्च नित्यमात्रवृत्तिर्वाऽनित्यमात्रवृत्तिर्वा । आद्यः पक्षे व्याहतः । द्वितीयस्तु शब्दनिष्ठः पक्षे सिध्यन्ननित्यत्वं शब्दस्य गमयतीत्यर्थः । ____२० (भुवन० )-अयं घटः शन्देतरानित्येत्यादि । शब्दादितरे च ते अनित्याश्च शब्देतरानित्याः, शब्देतरानित्याश्च ते नित्याश्च शब्देतरानित्यनित्याः। तद्वृत्तिषु शब्देतरानित्यनित्यवृत्तित्वं धर्मः । तद्रहितश्चासौ एतच्छब्दनिष्ठश्च । तस्याधिकरणं घट इत्यर्थः । एवंविधश्च साध्यधर्मोऽत्र विश्वप्र. तियोगिकघटशब्दान्योन्याभावादिः । स च यदि शब्दो नित्योऽङ्गीक्रियते, तदा नित्ये शब्दे शब्देतरानित्ये च घटे वर्तनाच्छब्देतरानित्यनित्यवृत्तित्वरहितो न भवति । तस्माच्छब्दस्यानित्यत्वमङ्गीकायम् । अत्र नित्यपदार्थेषु दृष्टान्तेषु शब्दनित्यान्यतरत्वादिर्वा शब्देतरानित्यान्यत्वादिर्वा धर्मो द्रष्टव्यः । अनित्यनित्यवृत्तित्वरहिततच्छब्दनिष्ठाधिकरणमित्युक्ते वादिनः अप्रसिद्ध विशेषणत्वम् । गगनादौ सपक्षेऽनित्यनित्यवृत्तित्वरहितस्य शब्दनिष्ठस्य च शब्दगगनान्यतरत्वादेधर्मस्य वादिनः काप्यप्रसिद्धेः । तदर्थ शब्देतरेतिपद्ग्रहणम् । शब्देतरानित्यपदं तु वादिप्रतिवादिनोरुभयोरप्यप्रसिद्धविशेषणतापरिहारद्वारेण पूर्वानुमाने एतद्धटपदवन्नित्येषु साध्यसिद्धयर्थमुपात्तं । तथैव चाहपूर्वमहाविद्यायामेतद्धटेत्यादि ॥ २० ॥
For Private And Personal Use Only