________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प० १
महाविद्याविडम्बनम् ।
च्छब्दत्वाद्यत्यन्ताभाववान्घटः प्रसिध्यति । शब्दत्वादि चानित्यनिष्ठं तदैव स्यात्, यदि शब्दोऽनित्यः स्यादिति शब्दानित्यत्वसिद्धिः ॥ १४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
४५
१५ अयं घटः एतद्वदान्यशब्दत्वात्यन्ताभाववत्त्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणं मेयत्वादिति ॥ एतद्धटान्यस्मिन् शब्दत्वात्यन्ताभाववति एतद्वदान्यशब्दत्वात्यन्ताभाववत्त्वं धर्मः । तद्रहितत्वमुपादायैतन्महाविद्यात्रयम् ॥ १५ ॥
१५ ( भुवन ० ) - अयं घटः एतद्वदान्येति । एतद्वदान्ये ये शब्दत्वात्यन्ताभाववन्तोऽत्यन्ताभाववन्तो विश्वपदार्थास्तद्वत्त्वरहिताऽनित्यः साध्यपक्षे शब्दे एव, तन्निष्ठो योऽत्यन्ताभावस्तत्प्रतियोगिनो ये घटत्वादयो धर्माः, तदधिकरणं घट इति भावार्थ: । एतन्महाविद्यात्रयोपयोगिनं धर्म दर्शयति-- एतद्वदान्यस्मिन्नित्यादि ॥ १५ ॥
१६ अयं घटः एतद्धनिष्ठात्यन्ताभाव शब्दत्वात्यन्ताभाववत्त्वरहितानि - त्यान्यः मेयत्वादिति ॥ १६ ॥
१६ ( भुवन० ) – अयं घटः एतद्वयनिष्ठात्यन्ताभावेत्यादि । एतद्वटनिष्टस्य अत्यन्ताभाव । तद्वत्त्वरहितो योऽनित्यो दृष्टान्तधर्मपक्षे एतद्धट एव । साध्यधर्मपक्षे तु शब्द एव । तस्मादन्यो घटइत्यर्थः ॥ १६ ॥
१७ अयं घटः एतद्भट्टनिष्ठात्यन्ताभाव शब्दत्वात्यन्ताभाववैत्त्वरहितानित्यनिष्ठात्यन्ताभावाधिकरणं मेयत्वादिति ॥ १७ ॥
१७ ( भुवन ० ) - अयं घटः एतद्वयनिष्ठात्यन्ताभावेत्यादि । एतद्वनिष्ठस्य घटत्वादेरत्यन्ताभावश्च शब्दत्वस्यात्यन्ताभावश्च । तौ विद्येते येषां ते तथा । तद्वत्त्वरहितानित्यौ एतौ द्वावेव । निष्ठा ये धर्मास्तेषां योऽत्यन्ताभावस्तदधिकरणं घटः । अत्रानित्यशब्दनिष्ठ शब्दत्वात्यन्ताभाववाघट इति परमार्थः ॥ १७ ॥
१८ अयं घटः एतद्धयनिष्ठात्यन्ताभाव शब्दत्वात्यन्ताभाववत्त्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणं मेयत्वादिति ॥ एतद्धयनिष्ठस्य अत्यन्ताभावश्च शब्दत्वात्यन्ताभावश्च एतद्घटनिष्ठात्यन्ताभावशब्दत्वात्यन्ताभावौ । तदुभयेरहितत्वं प्रकृतमहाविद्यात्रयोपयोगि ॥ १८ ॥
For Private And Personal Use Only
१८ ( भुवन० ) - अयं घटः इत्यादि । एतद्वदनिष्टस्यात्यन्ताभावश्च शब्दत्वात्यन्ताभावञ्च । तद्वत्त्वरहिता नित्यनिष्ठश्वासौ अत्यन्ताभावश्च । तस्य प्रतियोगिनो ये घटत्वादयो धर्मास्तेषामधिकरणं घट इत्याशयः । एतन्महाविद्यात्रयसंबन्धिनं धर्ममतिदिशति - एतद्घटनिष्टस्यात्यन्ताभाव इत्यादि । पाश्चात्यमहाविद्यात्रयमेतद्भूटान्योन्याभावमुपादाय प्रवृत्तम् । एतन्महाविद्यात्रयं त्वेतद्भट निष्ठात्यन्ताभावमुपादायेति स्फुट एव भेदः ॥ १८ ॥
१ भाव इति पुस्तकपाठः । २ भयवत्त्वरहि इति ज पुस्तकपाठः ।