________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
श्रीभुवनसुन्दरसूरिकृतटीकायुतं ५ अयं घटः एतद्धनिष्ठात्यन्ताभावैतच्छन्दनिष्ठात्यन्ताभाववत्त्वरहितानित्यनिष्ठात्यन्ताभावाधिकरणं मेयत्वादिति ॥ अनित्यनिष्ठस्य अत्यन्ताभावः अनित्यनिष्ठात्यन्ताभावः ॥ ५॥ __५ ( भुवन०)-अथ पूर्ववदेव भङ्गयन्तरमाह-अयं घट एतद्धटनिष्ठेत्यादि । एतद्धटनिष्ठात्यन्ताभावैतच्छब्दनिष्ठात्यन्ताभाववत्वरहितश्चासौ अनित्यश्च स तथा । तन्निष्ठस्य शब्दत्वादेर्योऽत्यन्ताभावस्तदाश्रयो घट इत्यर्थः । उक्तात्यन्ताभाववत्त्वरहितावेतद्धटैतच्छन्दो तयोरन्यतरानित्यः उभयप्रसिद्धो घटः । तनिष्टस्य घटत्वादेरत्यन्ताभावः पक्षादन्यत्र सर्वत्रास्तीति व्याप्तिसिद्धिः । घटे त्वनित्यशब्दनिष्ठस्य शब्दत्वादेरत्यन्ताभावः सिध्यन्ननित्यत्वं शब्दे साधयेदिति भावः । अत्र कर्मधारयं प्रति माह-अनित्यनिष्ठस्यात्यन्ताभाव इत्यादि ॥५॥
६ अयं घटः एतद्धटनिष्ठात्यन्ताभावैतच्छन्दनिष्ठात्यन्ताभाववत्त्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणं मेयत्वादिति ॥ अनित्यनिष्ठश्चासौ अत्यन्ताभावश्च ॥६॥
६ (भुवन०)-अथ पूर्वप्रकारान्तरेण महाविद्यान्तरमाह-अयं घट इत्यादि । यथोक्तात्यन्ताभाववत्त्वरहिताऽनित्यनिष्ठश्चासौ अत्यन्ताभावश्च, तस्य यः प्रतियोगी घटत्वादिस्तदधिकरणं घट इत्यर्थः। यथोक्ताऽनित्य एतद्धटो वा तच्छब्दो वा । तत्रैतहटनिष्ठो योऽत्यन्ताभावस्तस्य प्रतियोगिनो ये विश्वनिष्ठा धर्माः पटत्वाकाशशब्दत्वादयस्तेषामधिकरणं घट इति व्याघातः । तस्मादेतच्छब्दरूपो योऽनित्यस्तन्निष्ठो योऽत्यन्ताभावः तत्प्रतियोगिनो ये घटत्वादयस्तदधिकरणं घट इत्यर्थः । व्याप्तिस्तु तत्तन्निष्ठात्मत्वाकाशत्वादिभिर्यथोक्तविशेषणोपपनैः पक्षादतिरिक्ते सर्वत्रापि ज्ञेया । तत्पुरुषसमासं व्यावर्तयति-अनित्यनिष्ठश्चासावत्यन्ताभावश्चेति ॥ ६॥
७ अयं घटः एतद्धटान्योन्याभावैतच्छदनिष्ठात्यन्ताभाववत्त्वरहितानित्यान्यः मेयत्वादिति ॥ एतद्धटान्यत्ववदेतच्छब्दनिष्ठात्यन्ताभावोऽप्येतच्छन्दव्यतिरिक्तसकलनिष्ठ एव । एतच्छन्दमात्रनिष्टानां तदन्यत्रासंभवात् । तेन न कश्चित्क्षुद्रोपद्रवः । इयं चैतद्धटान्योन्याभावैतच्छन्दनिष्ठात्यन्ताभावावुपादाय प्रवृत्ता। प्रथमा चैतद्धटान्योन्याभावैतच्छब्दान्योन्याभावावुपादाय । चतुर्थी चैतद्धटनिष्ठात्यन्ताभावैतच्छब्दनिष्ठात्यन्ताभावावुपादाय । तेन प्रथमचतुर्थमहाविद्याभ्यामेतस्या महान्भेदो द्रष्टव्यः ॥७॥
७ (भुवन०)-चतुर्थ्यादिमहाविद्यात्रयमेवैतद्धटनिष्ठात्यन्ताभावपदस्थाने एतद्घटान्योन्या. भावपदग्रहणेन प्राह-अयं घटः एतद्धटान्योन्याभावैतच्छन्दनिष्ठात्यन्ताभाववत्त्वरहितानित्यान्यः इति । एतद्धटान्योन्याभावश्च एतच्छब्दनिष्ठस्यात्यन्ताभावश्च, एतद्दष्टान्योन्याभावैतच्छब्दनिष्टात्यन्ताभावौ । तद्वत्त्वरहितो योऽनित्यस्तस्मादन्यो भिन्न इत्यर्थः । एतद्धटान्योन्याभावैतच्छन्दनिष्ठात्यन्ताभाववत्त्वरहितौ एतद्धटैतच्छन्दौ । तयोरन्यतरैतद्धटान्यत्वं सर्वत्रास्तीति व्याप्तिसिद्धिः । घट
For Private And Personal Use Only