SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५०१ महाविद्याविडम्बनम् । सिध्यति । तस्यानित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वे सति पक्षवृत्तित्वेन तद्रहितत्वानुपपत्तेः । अतोऽनित्यत्ववन्मात्रवृत्तिधर्मः पक्षे सिध्यन् अनित्यत्वमन्तर्भाव्य सिध्यतीत्यनित्यत्वसिद्धिः ॥ २६ ॥ (भुवन०)-अत्रानित्यत्वसिद्धि दर्शयितुमाह-अनित्यत्ववन्निष्ठेत्यादि । अनित्यत्वात्यन्ताभाववन्मात्रवृत्तिवेति । नित्यमात्रवृत्तिनित्यत्वादिधर्म इत्यर्थः । अनित्यत्ववन्मात्रवृत्तिति । अनित्यमात्रवृत्तिः अनित्यत्वादिरित्यर्थः । शब्दे आद्यधर्मसाधने आद्यविशेषणेन सह विरोधः स्यादि त्याह-आधःपक्षे न सिध्यतीत्यादि । पारिशेष्याद्वितीयधर्म शब्दे साधयति-अतोऽनित्यत्ववन्मात्रेत्यादि । अनित्यत्वशब्दत्वश्रावणत्वादिरनित्यत्ववन्मात्रवृत्तिः तदा स्यात्, यदि शब्दोऽनि. त्यः स्यादित्यनित्यत्वमन्तर्गतं कृत्वा स धर्मः शब्दे सिध्यति । स चानित्यमात्रवृत्तिर्यद्यपि पक्षे वर्तमानत्वेन पक्षवृत्तित्वरहितो नास्ति, तथाप्यनित्यत्ववभिष्ठात्यन्ताभावप्रतियोगित्वे सति यः पक्षवृत्तिः तत्त्वरहित एवास्तीति व्याख्या ॥२६॥ २७ अयं शब्दः एतच्छब्दनित्यविषयत्वरहितज्ञानविषयः मेयत्वादिति ॥ येषु येषु ज्ञानेषु एतच्छन्दविषयत्वनित्यविषयत्वे स्तः, तेषु तेषु एतच्छन्दनित्यविषयत्वं धर्मः । तद्रहितं ज्ञानमेतच्छब्दाविषयं वा, नित्याविषयं वा । आद्यं पक्षीकृतशब्दविषयं न सिध्यति । व्याघातात् । द्वितीयं च पक्षशब्दविषयं सिध्यनित्यत्वमन्तर्भाव्य सिध्यति । पक्षीकृतशब्दनित्यत्वे यस्य कस्यचिदपि तद्विषयज्ञानस्य एतच्छन्दविषयत्वे सति नित्यविषयत्वेन तद्रहितत्वानुपपत्तेः ।। २७॥ २७ (भुवन० )--अथ प्रकारान्तरेण महाविद्यान्तरमाह-अयं शब्दः एतच्छन्दनित्यवि. पयत्वरहितज्ञानविषय इति । एतच्छब्दश्च नित्यश्च एतच्छब्दनित्यौ । तौ विषयौ मोचरो यस्य ज्ञानस्य तदेतच्छन्दनित्यविषयम् । तस्य भावः तत्त्वम् । तेन रहितं यत् ज्ञानं तस्य विषयः शब्द इत्यर्थः । येषु येषु ज्ञानेन्वित्यादि । येषु येषु शब्दाकाशादिज्ञानेषु । विशेषणाभावाद्वा विशेष्याभावाद्वा विशिष्टाभाव इति न्यायेन एतच्छब्दनित्यविषयत्वरहितज्ञानं हि एतच्छब्दाविषयं वा नित्याविषयं वा । तत्राद्यस्य एतच्छब्दविषयत्वे व्याघातमाह-आद्यं पक्षीकृतशब्देति । यदेवैतच्छब्दाविषयं तदेवेतच्छब्दविषयमिति व्याघात इत्यर्थः । द्वितीयमिति । नित्याविषयम् । तञ्च शब्दविषयं सिध्यच्छब्दस्यानित्यत्वं साधयेदिति भावः । अनित्यत्वसाधने हेतुमाह-पक्षीकृतशब्दनित्यत्वे यस्य कस्यचिदपीत्यादि । यद्यतच्छब्दो नित्योऽङ्गीक्रीयेत, तदा यत्किञ्चिदेतच्छन्दविषयज्ञानस्य नित्यविषयत्वमेव स्यात्, न तु तदविषयत्वमित्यर्थः । तद्रहितत्वानुपपत्तेरिति । नित्यविषयत्वरहितत्वानुपपत्तेरित्यर्थः । अत्र सर्वत्र सपक्षे एतच्छब्दाविषयज्ञानविषयत्वं धर्मो मन्तव्यः ॥२७॥ १ अनित्यशब्दत्व इति छ द पुस्तक पाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy