________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महाविद्याविडम्बनम् ।
नित्यत्वव्यतिरिक्तेत्यादिविशेषणेन धर्मद्वयमायाति, नित्यत्वं वा नित्यत्वव्याप्यं वा । तत्र नित्यत्वं तावत्प्रथम विशेषणेन एतदाकाशेत्यादिना विचार्यमाणं न जाघटीति व्याघातादिति दर्शयति-तत्र नित्यत्वं तावदित्यादिना । अथ नित्यत्वाव्याप्यमित्येवंरूपे द्वितीये धर्मान्तरविकल्पे पूर्ववनित्यत्वव्याप्य नित्यनिष्ठत्वरहितं नित्यत्वाव्याप्यत्वाभावेन वा नित्यनिष्ठत्वाभावेन वा इति धर्माभ्यां विचारयति - नित्यत्वा व्याप्यमपि नित्यत्वाव्याप्यनित्यनिष्ठत्वरहितमित्यादि । द्वितीयविशेषणोद्धरितं नित्यत्वात्र्याप्यमिति द्वितीयं धर्मान्तरं नित्यत्वाव्याप्यनित्यनिष्ठत्वरहितं सत् यदि तृतीयविशेषणायातनित्यत्वा व्याप्यत्वरहितत्वेन तदा नित्यत्वव्याप्यं नित्यत्वाव्याप्यत्वरहितं चेति व्याघातः । व्याघातादेव च तथाभूतस्य धर्मस्य पक्षे शब्दरूपेऽनुपसंहारोऽनवतारः । अथ तृतीयविशेषणायातं नित्यनिष्ठत्वरहितं द्वितीयं धर्मान्तरं परिशिष्टमभ्युपगच्छन् शब्दस्यानित्यत्वं दर्शयतितेन नित्यत्वव्याप्यस्येत्यादिना । तेन नित्यनिष्टत्वरहित इत्यादि । तेन नित्यनिष्ठत्वरहितः घटान्यतरत्वादिर्धर्मः पक्षीकृतशब्देऽधिगम्यमानः । नित्यत्वप्रतिक्षेपरूपमनित्यत्वमन्तर्भाव्येति । नित्यत्वतिरस्काररूपमनित्यत्वं पक्षे सिद्धं कृत्वा अधिगम्यते ज्ञायते इत्यर्थः । पूर्वोक्त विशेषणत्रयेण नित्यधर्माणा प्रतिक्षेपात् शब्दस्यानित्यत्वं विनैवंविधविशेषणविशिष्टाः शब्दघटान्यतरत्वादयः शब्दधर्मा नोपपद्यन्ते । तस्माच्छब्दस्यानित्यत्वमङ्गीकरणीयमेवेति । यद्वा अत्र शब्दत्व श्रावणत्वादयोऽपि पक्षे साध्यधर्मा ज्ञेयाः । ते च नित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वरहितास्तदैव, यदि शब्दस्यानित्यत्वं म्यादिति द्वितीयविशेषणेनापि परिशेषाच्छब्दस्यानित्यत्वमुपपाद्यभिति ।
ननु नित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वरहितो नित्यत्वव्याप्यनित्यनिनिष्ठत्वरहितश्च धर्मो नित्येषु नित्यत्वमेव । तस्य च पक्षीकृतशब्दाकाशवृत्तित्वरहितत्वं शब्दानित्यत्वसिद्धेः पूर्वं दुरधिगममिति कथं नित्यानां सपक्षतेति चेत् । न । नित्यानां पक्षतुल्यत्वेनास्माभिः सपक्षत्वानङ्गीकारात् । अत एव चैनां महाविद्यां मूलानुमानविपक्षं गगनादिकं पक्षीकृत्य प्रवर्तमानासु गणयिष्यामः । तदा च मूलानुमानपक्षस्य पक्षतुल्यत्वं सपक्षस्य च सपक्षत्वमिति ॥८॥
( आनं० ) — नित्यपदार्थानां साध्यसमानधर्मत्वाभावेन सपक्षत्वा सिद्धौ व्याप्तिभङ्ग इति चोदयति—नन्विति । शब्दानित्यत्वसिद्धेः पूर्वे नित्यत्वस्य एतदाकाशवृत्तित्वराहित्य संदेहान्नित्यानां संदिग्धसाध्यसमानधर्मतया पक्षतुल्यत्वमिति परिहरति--नेति । न च पक्षतुल्ये व्यभिचारः । अयमग्निरद्विष्ठातीन्द्रियसामान्यवन्निष्क्रियाश्रयः, कारणत्वात्, गुरुत्वाश्रयवदित्यादौ गगनादिषु व्यभि - चारापत्तेरिति भावः । पक्षतुल्यत्वे लिङ्गमाह - अत एवेति । लिङ्गत्व
....
For Private And Personal Use Only
1
२५
( भुवन ० ) — नित्यवस्तूनां साध्यसमानधर्मवत्त्वाभावेन सपक्षत्वासिद्धौ व्याप्तिभङ्ग इत्याक्षिपति - ननु नित्यत्वव्यतिरिक्तेत्यादि । नित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वेत्यादिद्वितीयतृतीयविशेषणविशिष्टं नित्येषु दृष्टान्तीक्रियमाणेषु नित्यत्वमेव । तस्य च पक्षीकृतशब्दाकाशेत्यादि ।
१ उर्वरितमिति स्यात् ? । २ 'लिङ्गत्वा' इत्यतः परमादर्शग्रन्थे १० पत्राणि उप्तानीति टिप्पनं विद्यते । ४ महाविद्या ०