SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं तद्धर्मत्वानाक्रान्तत्वं विद्यते एव । शब्दे तयोरवर्तनात् । तथा च सति एवं विधाभावयोः सर्वसपक्षे वर्तनादप्रसिद्धविशेषणत्वमपि परिहृतमित्यर्थः ॥२॥ ३ अयं शब्दः अनित्यत्वव्यतिरिक्तैतद्धर्मत्वरहिताधिकरणं मेयत्वादिति। अत्र चानित्यत्वव्यतिरिक्तैतद्धर्मेषुअनित्यत्वव्यतिरिक्तैतद्धर्मत्वं नाम धर्म:, तद्रहितश्च पक्षावृत्तिर्वा अनित्यत्वं वा । तत्र प्रथमः पक्षे नोपसंहतुं शक्यः । पक्षावृत्तिः पक्षे वर्तते इति व्याघातात् । तस्माद्वितीयमनित्यत्वं पक्षे सिध्यति ॥ ___ ३ (आनं० )-अयं शब्दः एतद्धमत्वरहिताधिकरणमित्युक्ते बाधोऽत उक्तम्-अनित्यत्वव्यतिरिक्तेति । अनित्यत्वव्यतिरिक्ताधिकरणमित्युक्ते मेयत्वादिनार्थान्तरता, अत उक्तम्-एतद्ध. मत्वरहितेति । अनित्यत्वस्यानित्यत्वव्यतिरिक्तत्वाभावादनित्यत्वव्यतिरिक्तत्वे सत्येतद्धर्मत्वरहितत्वमस्ति, तेन प्रमेयत्वहेतुरनित्यत्वं पक्षे गमयतीति भावः । अनुमानार्थमाह-अत्रेत्यादिना । ३ ( भुवन० )-प्रयोगान्तरमाह-अयं शब्दः अनित्यत्वेत्यादि । इयं च ‘पक्षोऽथवा साध्यविनाकृतेन ' इति कारिकापदमुद्दिश्य प्रवृत्ता । अनित्यत्वव्यतिरिक्ता ये एतद्धर्माः शब्दधर्माः, तेष्वनित्यत्वव्यतिरिक्तैद्धमत्वं नाम धर्मः । तत्त्वेन रहितानां धर्माणामधिकरणमाधार इत्यर्थः । अत्र च कथमनित्यत्वसिद्धिरित्याह-तद्रहितश्चेति । अनित्यत्वव्यतिरिक्तैतद्धर्मत्वरहितश्च पक्षावृत्तिर्वाऽनित्यत्वं वा । तत्र प्रथमः पक्षावृत्तिर्घटत्वपटत्वाकाशत्वादिः पक्षे शब्दे व्याघातेन नोपसंहर्तु शक्यः । तस्मादनित्यत्वं शब्दे सिध्यतीति भावः ।। ३ ।। ४ अयं शब्दः संप्रतिपन्नतद्धर्मत्वानाक्रान्ताधिकरणं मेयत्वादिति । अत्रच संप्रतिपत्नैतद्धर्मेषु संप्रतिपन्नतद्धर्मत्वं नाम धर्मः । तेनाकान्तश्चैतच्छब्दवृत्तित्वरहितो वा विप्रतिपन्नमनित्यत्वं वा । प्रथमो व्याहतत्वान्न पक्षे सिध्यति । तेन पक्षे विप्रतिपन्नानित्यत्वसिद्धिरिति ॥ ४॥ ४ (आनं०)-अयं शब्दोऽधिकरणमित्युक्ते मेयत्वादिनार्थान्तरता, अत उक्तम्-एतद्धर्मत्वानाक्रान्तेति । एतद्धर्मत्वानाक्रान्ताधिकरणमित्युक्ते व्याघातपरिहाराय संप्रतिपन्नेति विशेषणम् । संप्रतिपन्नतद्धर्मत्वानाक्रान्तश्च पक्षावृत्तिर्वा विप्रतिपन्नमनित्यत्वं वा । प्रथमो व्याहत इति द्वितीयमनित्यत्वं सिध्यतीत्यर्थः। ४ (भुवन०)-अथ 'पक्षेषु ये सन्ति विवादहीनाः, विहाय तानन्यतरः प्रसाध्यः ॥ इति कारिकार्धमाश्रित्य प्रवृत्तां महाविद्यामाह-अयं शब्दः संप्रतिपन्नेति । अत्र संप्रतिपन्नाः शब्दधर्माः शब्दत्वप्रमेयत्वादयः, तेषां भावः तत्त्वम् । तेनाक्रान्तानां धर्माणामाश्रयः इत्यर्थः । शब्दानित्यत्वसिद्धिमाह-तदनाक्रान्तश्चेत्यादिना | सुगममेवैतत् ॥ ४ ॥ ५ अयं शब्दः अनित्यत्वात्यन्ताभावव्यतिरिक्तैतन्निष्ठात्यन्ताभावप्रतियोगित्वरहितात्यन्ताभावाधिकरणं मेयत्वादिति । अत्र चानित्यत्वात्यन्ताभावव्यतिरिक्ताश्च ते एतन्निष्ठात्यन्ताभावप्रतियोगिनश्चेति विग्रहः । तेषु चानित्य For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy