SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुनं माणामनित्यत्वात्यन्ताभावववृत्त्येतहर्मत्वेन तदनाक्रान्तत्वानुपपत्तेः । पक्षेनित्यत्वाभ्युपगममात्रेण प्रकृतसाध्यार्थस्योपपन्नत्वेन न व्याघातः । पक्षवृत्तित्वाभावेन अनित्यत्वात्यन्ताभावववृत्तिपक्षवृत्तित्वरहितयोः पक्षमात्रनिष्ठात्यन्ताभावपक्षान्योन्याभावयोः पक्षव्यतिरिक्तसकलवस्तुनिष्ठयोरुक्तरूपोपपन्नयोः प्रसिद्धत्वेन नाप्रसिद्ध विशेषणतापि। एवं महाविद्यान्तरेष्वपि यथासंभवं पक्षमा. त्रनिष्ठात्यन्ताभावपक्षान्योन्याभावावुपादायाप्रसिद्धविशेषणत्वं निरसनीयम् । २ (आनं०)-प्रयोगान्तरमाह-अयमिति । अनित्यत्वात्यन्ताभावो यस्य सोऽनित्यत्वात्यन्ताभाववान् , तत्र वृत्तिर्येषां तेऽनित्यत्वात्यन्ताभाववद्वृत्तयः, ते एवैतत्पक्षीकृतशब्दधर्माः अनित्यत्वात्यन्ताभाववद्वत्त्येतद्धर्मास्तेषु तथात्वं धर्मः तदत्यन्ताभाववान् , तदनाक्रान्तः तस्याधिकरणमाश्रय इत्यर्थः । शब्दः उक्तसाध्यवानियुक्तपक्षान्योन्याभावस्य पक्षवृत्तित्वाभावादनित्यत्वात्यन्ताभाववद्वत्त्येतद्धर्मत्वानाक्रान्तत्वमस्ति, तदधिकरणं च शब्दान्तरमिति भागे सिद्धसाधनता, अत उक्तम्-अयमिति । अयं शब्दोऽधिकरणमित्युक्ते प्रमेयत्वादिना अर्थान्तरता, अत उक्तम्-एतद्धर्मत्वानाक्रान्तेति । तथोक्ते व्याघातः स्यादत उक्तम्-अनित्यत्वात्यन्ताभाववद्वत्त्येतद्धर्मत्वानाक्रान्तेति । अनित्यत्वात्यन्ताभाववत्तित्वानाक्रान्ताधिकरणमित्युक्तौ नित्येषु साध्यासिद्धिः । नहि नित्यानामुक्तधर्माधिकरणत्वं, नित्यत्वस्यैवानित्यत्वात्यन्ताभावत्वादत उक्तम्-एतद्धर्मानाक्रान्तेति।अनित्यत्वात्यन्ताभाववद्वत्त्येतद्धर्मत्वानाक्रान्त एतद्धर्मत्वरहितो वा अनित्यत्वात्यन्ताभाववद्वत्तित्वरहितो वा । आद्यः पक्षे व्याहतो, द्वितीयस्त्वनित्यत्वमन्तर्भाव्य सिध्यति । पक्षस्यानित्यत्वाभ्युपगममात्रेण प्रतिज्ञार्थस्योपपत्तेरिति महाविद्यार्थः । संक्षेपतो व्याचष्टे-अत्र चेति । तथापि कथमनित्यत्वमत्राह-सै एवेति । एतदेव कुतोऽत्राह-शब्दस्येति। एतद्धर्मत्वानाक्रान्तस्यैतस्मिन्साधने व्याघातोऽत्राह-पक्ष इति । पक्षस्य नित्यत्वे पक्षनिष्ठस्यानित्यत्वात्यन्ताभाववद्वृत्तित्वाभावेन तद्विशिष्टैतद्धर्मत्वानाक्रान्तत्वमुपपन्नमित्यर्थः । शब्दस्यानित्यत्वसिद्धेः प्रागुक्तरूपधर्मासिद्धेरप्रसिद्धविशेषणतात्राह-पक्षेति । पक्षवृत्तित्वाभावे सत्यनित्यत्वात्यन्ताभाववद्वत्त्येतद्वृत्तित्वं नास्ति । विशेष्यैतद्धर्मत्वाभावेऽपि विशिष्टाभावसाध्यसिद्धिरित्यर्थः । तथापि कथमप्रसिद्धविशेषणतापरिहारोऽत्राह-पक्षचित्वरहितयोरिति । शब्दो नित्यत्वव्यतिरिक्तैतद्धर्मत्वरहिताधिकरणमित्युक्ते पक्षीकृतशब्दमात्रनिष्ठधर्मात्यन्ताभावस्यानित्यत्वव्यतिरिक्तत्वादेतद्धर्मत्वराहित्याच शब्दान्तरतदधिकरणमिति भागे सिद्धसाधनतापरिहारायोक्तमयभिति । २ (भुवन०)-अथ महाविद्यान्तरमाह-अयं शब्दः अनित्यत्वात्यन्ताभावेत्यादि । इयं च महाविद्या 'विच्छिद्य वाभाववदन्वितेन' इति कारिकापदं महाविद्यास्थितं समाश्रित्य पक्षपक्षीकरणेन प्रवृत्ता । अनित्यत्वस्य अत्यन्ताभावोऽनित्यत्वात्यन्ताभावो नित्यवं, तद्विद्यते यस्य सोऽनित्यत्वात्यन्ताभाववान् नित्यपदार्थः, तत्र वृत्तियेषां तेऽनित्यत्वात्यन्ताभाववद्वत्तयः, त एवैतत्पक्षीकृतशब्द १ धस्योपपत्तेर्न च्या इति ज पुस्तकपाठः । २ ‘स एवेति' इत्येतत्प्रतीकं मूलमहाविद्याविडम्बनादर्श पुस्तकेषु न विद्यते। For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy