________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं प्रयोगः सर्वशब्दानित्यत्वविषयः इत्यत आह-यद्वेति । शब्दशब्देतरोति । शब्दशब्देन शब्दत्वाधिकरणस्य तदितरशब्देन शब्दत्वानधिकरणस्य विवक्षितत्वान्न प्राक्तनदोषानुषङ्ग इति भावः ।
(भुवन० )-तस्मादेकैकमिति । अयं विवक्षितो घटपटादिशब्द इत्येवं विश्वादेकैकं शब्द पृथक् पक्षीकृत्य विवक्षितानित्यत्वसाधनेन तदृष्टान्तावष्टम्भेन सर्वशब्दानामनित्यत्वं प्रसाध्यमिति भावः। सर्वशब्दानामनित्यत्वप्रसाधनाय प्राह- यद्वा शब्दः शब्दशब्दत्वेति । शब्दः शब्दत्वाधिकरणं सर्वशब्दः । शब्दत्वरहितं शब्दत्वानधिकरणं सर्व विश्वं, तत्र यत् निष्ठत्वं तेन अनाक्रान्तो यः कश्चनानित्यनिष्ठो धर्मस्तथाधिकरणं शब्द इत्यर्थः । अत्र शब्दशब्देन शब्दत्वाधिकरणस्य, शब्दत्वरहितशब्देन च शब्दत्वानधिकरणस्य विवक्षितत्वान्न प्राचीनदोषानुषङ्ग इत्यभिप्रायः ।।
ये तु अयं शब्दः स्वस्वेतरवृत्तिव्यतिरिक्तानित्यनिष्टधर्माधिकरणमिति प्रतिजानते, तेषां सिद्ध साधनं स्पष्टम् । स्वस्वेतरवृत्त्यभिधेयत्वादिव्यतिरिक्तस्वस्खेतरवृत्त्यनित्यनिष्टप्रमेयत्वादिधर्माणां पक्षनिष्ठत्वेन वादिप्रतिवादिभ्यामङ्गीकृतत्वादिति । तस्मात्सर्वत्र तयतिरिक्तादिपदस्थाने तत्त्वानाक्रान्तत्वादिपदं प्रयोक्तव्यमिति।
(आनं०)-एकदेशीयप्रयोगमनुवदति-ये विति । स्वस्मिन्स्वेतरेषु च वृत्तिर्यत्य स स्वस्खेतरवृत्तिः, तस्माद्व्यतिरिक्तोऽनित्यनिष्ठो यो धर्मस्तदाश्रय इत्यर्थः । कृत्यं पूर्ववत् । दूषयतितेषामिति । तदुपपादयति-स्वस्वेतरेति ।
(भुवन०)-एकदेशीयप्रयोगमनुवति-ये तु अयं शब्द इति । स्वस्मिन् स्वेतरेषु च वृत्तियस्य स स्वस्वेतरवृत्तिरभिधेयत्वादिः, तब्यतिरिक्तोऽनित्यनिष्ठो धर्मः सत्त्वप्रमेयत्वादिः तदाश्रय इत्यर्थः । अत्र तत्त्वानाक्रान्तपदस्थाने तव्यतिरिक्तति पदं प्रयुक्तमित्येतदेव वैचित्र्यम् । शेषं तु पूर्ववदेव ज्ञेयम् । अनूद्य दूषयति-तेषामित्यादि । सिद्धसाधनतामेवाह-स्वस्वेतति । स्वस्वेतरवृत्तिरभिधेयत्वादिधर्मः, तस्माब्यतिरिक्ता ये स्वस्वेतरवृत्तय एवानित्यनिष्टाः प्रमेयत्वादयो धर्मास्तेषां पक्षनिष्ठस्वेनो भयोरपि सिद्धत्वात् स्पष्टव सिद्धसाध्यतेत्यर्थः । अत्र च विवादपदापन्नः पक्षमात्रनिष्टत्वे सत्यनित्यनिष्ठ एव धर्मो न तु सत्त्वप्रमेयत्वादिः, तत्य घटाद्यनित्यनिष्ठत्वेनानित्यनिष्ठत्वात्पक्षमात्रनिष्ठत्वानुपपत्तेः । तस्मादनिष्टार्थापत्त्या व्यतिरिक्तेति पदं न प्रयोज्यम् । तत्त्वानाक्रान्तेति । शब्दतदितरवृत्तित्वानाक्रान्त इत्येवं पदं प्रयोज्यम् ।। ___ अयं च प्रमेयत्वादिहेतुः स्वस्वेतरबृत्तित्वानाक्रान्तानित्यनिष्ठधर्मवत्त्वं व्यापकं पक्षे गैमयन्ननित्यत्वमन्तर्भाव्य गमयति । न हि पक्षेऽनित्यत्वमनधिगम्य पक्षमात्रनिष्ठधर्मस्यानित्यनिष्ठत्वं शक्याधिगमम् । नापि पक्षे पक्षमात्र
१ महाविद्याविडम्बनग्रन्थस्यादर्शपुस्तकेषु तथा भुवनसुन्दरविरचितमहाविधाविडम्बनवृत्तौ - शब्दशब्दत्वरहित' इति पागे दृश्यते । २ निष्ठाधिक इति ज पुस्तकपाठः। ३ त्वादिहे इति ग पुस्तकपाठः। ४ पधे साधय इति ज पुस्तकपाठः ।
For Private And Personal Use Only