SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीनवनसुन्दरसूरिकृतटीकायुतं भावाधिकरणविपक्षरूपव्यावासम्भवेन यस्य कस्यचिदुपाधित्वेनाभिधीयमानस्यावश्यकपक्षेतैरत्वदोषग्रस्तत्वेनोपाधित्वानुपपत्ती व्याप्यत्वासिढेरपि निरस्तत्वात् । केवलान्वयिनि साध्याभावाप्रसिद्धत्वेनैव च साध्याभाववन्मात्रवृत्तित्वसाध्याभाववत्तित्वसाध्याभावसाधकसमानबलसाध्याभावसाधकाधिकबलरूपाणां विरुद्धत्वानकान्तिकत्वप्रतिपक्षबाधानामप्यनुपपत्तेः । विपक्षाभावेन च विपक्षवृत्तित्वशङ्कासंभवेन तन्निवृत्यं तर्काकाङ्क्षाभावेन तर्कविरहादीनामप्यदूषणत्वादिति । (भुवन० )-खण्डनीयस्वरूपानिरूपणे खण्डनरूपविडम्बनं निरूपयितुं न शक्यम । अतो ग्रन्थकारः प्रथमं महविद्यां विवक्षुस्तल्लक्षणमाह-केवलान्वयिनि व्यापके प्रवर्तमानो हेतुरित्यादि । हेतुर्महाविद्या उच्यते । किं कुर्वाणः । प्रवर्तमानः । कस्मिन् । केवलान्वयिनि व्यापके । महाविद्यासाध्ये इत्यर्थः । किं कुर्वन् । साधयन । किं कर्म । अन्वयव्यतिरेकिसाध्यविशेषम् । अन्वयश्च व्यतिरेकश्चान्वयव्यतिरेको । तौ विद्येते यस्य सोऽन्वयव्यतिरेकी, अनित्यः शब्दः कृतकत्वादित्यादेर्मूलानुमानस्य हेतुः । तस्य साध्यविशेषमनित्यत्वादि। तच्च किंविशं, वाद्यभिमतम् । कस्मात्साधयन् । पक्षे व्यापकेति । पक्षे शब्दादौ घटात्मादौ वा महाविद्यासंबन्धिनि । व्यापकं साध्यं महाविद्यायाः । तस्य प्रतीतिः परिज्ञानं, तस्या अपर्यवसानमनुपपत्तिः, तबलात् । इदमत्र हृदयम्-अयं शब्द: स्वस्वेतरवृत्तित्वानधिकरणानित्यनिष्ठधर्मवान् इत्यत्रैवंविधं महाविद्यासाध्यं शब्दे तदैव स्याद्यदि शब्दस्यानित्यत्वं भवेत् , नान्यथा । तस्माच्छब्दस्यानित्यत्वं स्वीकर्तव्यमित्येवमनुपपत्तिबलात् वादिनोऽभिमतमनित्यत्वादिरूपं साध्यं साधयन् हेतुर्महाविद्योच्यते इति संटङ्कः । महाविद्याहेतोर्महाविद्यात्वं किमुच्यते इत्याकाङ्कायामाह-तस्य च महाविद्यात्वमिति । तस्य महाविद्याहेतोर्महाविद्यात्वमसिद्धत्वविरुद्धत्वादिसकलदोषविरहः । असिद्धत्वादिदोषविरहे हेतूनाह–प्रमेयत्वादीनामिति । मेयत्वादयो महाविद्याहेतवो हि निश्चितं पक्षे वर्तन्ते इति तेषां पक्षधर्मत्वासिद्धरसंभव एव । एतावता महाविद्याहेतोः पक्षधर्मवासिद्धत्वमसिद्धत्याद्यो भेदो निराकारि । अथासिद्धद्वितीयभेदो व्याप्यत्वासिद्धत्वं, तदुस्थापनाय हेतुमाह--केवलान्वयिनीति । केवलान्वयिनि महाविद्याहेतौ साध्यं महाविद्यासाध्यं, तस्य योऽभावस्तस्याप्रसिद्धी । कोऽर्थः । महाविद्यासाव्यस्य केवलान्वयित्वेन काप्यभावो नास्ति । ततः साध्याभावाप्रसिद्धौ सत्यान् । साध्याभावाधिकरणेति । साध्यं महाविद्यासाध्यं, तस्य योऽभावः, तस्याधिकरणं यो विपक्षः, तद्रूपव्यावर्त्यस्यासंभवेन यस्य कस्यापि दीयमानस्योपाधेरवश्यभावी यः यक्षेतरत्वदोषः, तद्भस्तत्वेन । अयमाशयः-'साधनाव्यापकः साध्यव्याप्तिक उपाधिः' इत्युपाधिलक्षणम् । स चोवाधिः सपक्षे दीयते, तथा पक्षे विपक्षे चावर्तमानो विलोक्यते, यथा-विमता हिंसा अधर्मसाधनं, हिंसात्वात् , म्लेच्छहिंसावदित्यत्र म्लेच्छहिंसायां निषिद्धत्वमुपाधिः । अयं च साधना १ "वश्यप' इति ज पुस्तकपाठः । २ 'तरत्वादिदों इति ज पुस्तकपाठ । ३ ‘साध्याभाववद्वतित्व' इति पदं ज पुस्तके नास्ति । ४ 'त्वसत्प्रतिपक्षत्ववा' इति ज पुस्तके ५ "त्याशङ्कायामाह' इति च पुस्तकपाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy