________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीवादिन्द्रपण्डितविरचितं
महाविद्याविडम्बनम् |
Acharya Shri Kailassagarsuri Gyanmandir
वाक्कायचेतः प्रभवापराधप्रबन्धसम्बन्धतमः प्रकीश । उन्मुद्रितज्ञानसुधानिधान गौरीपते त्वां शरणं प्रपद्ये ॥ १ ॥ श्रीभुवनसुन्दरसूरिविरचिता महाविद्याविडम्वनवृत्तिः ।
श्रीगौर्यस्य विभोस्त्रिपद्यपि पदैर्युक्ताप्रमैः पर्ययद्रव्योद्यन्नदृग्याप्यथ नयानन्तेक्षणप्रेक्षणा । लोका लोकममेयगोचर मिता स्याद्वादवादं रसं
दत्ते शाश्वत सौख्यदं स जयतान्मायाक्षरेक्ष्यो जिनः ॥ १ ॥ यां कन्दप्रभवन्मृणालविलसत्तन्त्वात्मना मूर्द्धगां
शक्तिं कुण्डलिनीं समुज्वलसुधाधाराः किरन्तीं बुधाः । चञ्चचन्द्ररुचि विचिन्त्य कवितैश्वर्येण वाचस्पति
१ "प्रकाशः" इति ज पुस्तकपाठः । १ महाविद्या ०
कुर्वन्ति मुदेऽस्तु सा भगवती श्रीशारदादेवता ॥ २ ॥ तर्कादिग्रन्थविषये यत्किञ्चिज्ज्ञायते मया ।
तत्र श्रीगुणरत्नागुरूणां वाग्विजृम्भितम् ॥ ३ ॥ श्रीमत्त पागणनभोऽङ्गणभानुकल्पश्रीसोमसुन्दरगुरोः प्रवरोपदेशम् आसाद्य साहसमिदं क्रियते मयैतद्गन्धातिदुर्गमपदार्थविवेचनायाम् ॥ ४ ॥ अथ व्याख्यायते किश्चिन्महाविद्याविडम्बनम् । वृद्धाम्नायानुसारेण मन्दधीबुद्धिवृद्धये ॥ ५ ॥
( भुवन ० ) - इह हि तर्कसाहित्यालङ्कारादिसकलशास्त्रार्थसार्थाम्भोधिपारीणप्रतिभः स्वकी - यादूष्यवैदुष्यकलारञ्जितनानानरेन्द्रसभः श्रीभट्टवादीन्द्रो महाविद्याभ्यासवशसंजातगर्वपर्वताधिरूढवादिवृन्दारकपिपातयिषया महाविद्यास्वरूपमविज्ञायैव विज्ञतयैष महाविद्या विडम्बयतीति साशङ्कपण्डितप्रकाण्डानां नूतनमहा विद्यानुमान परम्परा प्रकटनपाटवेनैवंविधशङ्काशङ्कुसङ्कुलत्वपरिजिहीर्षया महाविद्या जिज्ञासुप्राज्ञावतंसानां विज्ञत्वसिंहासनाध्यारुरोहयिषया च महाविद्याविडम्बनग्रन्थं चिकीर्षुः
For Private And Personal Use Only