SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૮૮ भुवनसुन्दरसूरिकृतटिप्पनसमेतम् । शान्येत्यनेन साध्याश्रयविपक्षान्येति । नित्यमात्रवृत्तित्वानधिकरणेत्यनेन विपक्षे व्यतिरेकभागिति योजना।। (अथ षोडशानुमानम् ।) (भुवन०)-साध्याश्रयविपक्षेत्यादि । अत्र साध्यः पक्षीकृतः शब्दः । तदाश्रयो विपक्षः आकाशः । तस्य व्यावर्तनेन निषेधनेनेत्यर्थः । अपक्षेतीति । " अपक्षसाध्यवद्वत्तिविपक्षान्वयि यन्नतत् । ___ साध्याश्रयविपक्षान्यविपक्षे व्यतिरेकभाक् ” ॥ १६ ॥ अपक्षः पक्षादन्यः इत्यादि । अपक्ष: पक्षादन्यो यः साध्यवान् , सपक्षो घटादिः । तत्र विपक्षे आकाशादौ च युगलावृत्तित्वेन यन्न वर्तते । यच्च साध्याश्रयो यो विपक्षः इत्यादि । साध्यते इति साध्यः पक्षः शब्दः । तदाश्रयो विपक्षः आकाशः । तस्मादन्यो विपक्षो नित्यमात्रं, तत्र व्यतिरेकभाक् अवृत्तिभाक्, न वर्तते इत्यर्थः । अत्राकाशव्यतिरिक्तात्मादिनित्येषु वृत्तिनिषेधादाकाशवृत्तित्वमनुज्ञातमेव । विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वात् । अत एव आकाशधर्मवानिति कारिकायामनुक्तमप्यनुमाने गृहीतम् । एवंविधं धर्मान्तरं पक्षे साध्यते इत्यर्थः । अथानुमानम् । शब्दः शब्देतरानित्यनित्यावृत्त्याकाशान्यनित्यमात्रवृत्तित्वानधिकरणाकाशधर्मवान् मेयत्वात् घटाकाशादिवत् । __अथ व्यावृत्त्यचिन्ता-आकाशधर्मवानिति कृते नित्यत्वेन विपरीतसाधनं स्यात् । तदर्थं नित्यमात्रवृत्तित्वानधिकरणेति । तथापि द्रव्यत्वेन व्याघातः । तदर्थमाकाशान्येति । तथापि द्रव्यत्वेन व्याघातस्तवस्थः एव । तदर्थमनित्यनित्यावृत्तीति । तथापि न विवक्षितसिद्धिरिति शब्देतरेति पदं प्रक्षिप्तम् । इति सर्वमनवद्यम् । इति षोडशानुमानम् ।। महाविद्यादशश्लोकी विवृतापि चिरन्तनैः। मन्दधीवृद्धिसिद्ध्यर्थं विकृतेयं यथागमम् ॥ इति महाविद्याविवरणं समाप्तम् । (भुवन० )-अथ व्यावृत्त्यचिन्ता । आकाशधर्मवानित्यादि । यदि शब्दः आकाशधर्मवानिति क्रियते, तदा साध्यमनित्यत्वं तत्र न सिद्धयति, किन्तु नित्यत्वम् । तथा च सति विपरीत. साधनं स्यादित्यर्थः । तदर्थ नित्यमात्रवृत्तित्वेत्यादि । शब्दो नित्यमात्रवृत्तित्वानधिकरणाकाशधर्मवानिति यदि क्रियते, तदा द्रव्यत्वेन व्याघातः । यतो द्रव्यत्वं नित्यमाञ एव न वर्तते, किन्तु अनित्ये घटपटादावपि वर्तते, ततो नित्यमात्रवृत्तित्वानधिकरणम् । आकाशेऽपि वर्तनात् । आकाशधर्मश्च द्रव्यत्वम् । तच्चेत् शब्दे साध्यते, तदा व्याघातः स्यादेव । शब्दस्य गगनगुणत्वात् । गुणे च १त्वं तन सिं इति त ध पुस्तकपाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy