________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
भुवनसुन्दरसूरिकृतटिप्पनसमेतम् । १५ विच्छिद्य वाऽभाववदन्वितेन ॥९॥ शब्दः शब्दनित्यादृत्तिधर्मवान् ।
अयमर्थः-विच्छिद्य भिन्नीकृत्य प्रतिज्ञान्तर्गतं कृत्वा । पक्षमित्यर्थः । अभाववदन्वितेति । अभावः साध्याभावः । साध्यमनित्यत्वं, तस्य अभावो नित्यत्वं, तद्वत् तद्युक्तम् । साध्याभाववन्नित्यमित्यर्थः । तत्र साध्याभाववदन्वितेन नित्येन साध्यते । किम्भूतः साध्यते इत्याकाङ्क्षायां पूर्ववयावृत्तधर्म: वानिति श्लोकैकत्वादनुवर्तते।
अथ योजना-अत्र प्रतिज्ञान्तर्गतेन शब्दपदेन श्लोकगतं विच्छिद्येति पदं व्याख्यातम् । नित्यवृत्तिधर्मवानित्यनेन अभाववदन्वितेनेति व्याख्यातम् । इति योजना ॥
(अथ पञ्चदशानुमानम् ।) (भुवन० )-वास्तवपक्षस्येति । शब्दस्य । विच्छिद्येतीति ।
___“ विच्छिद्य वाऽभाववदन्वितेन " ॥ १५ ॥ विच्छिद्य भिन्नीकृत्येत्यादि । पक्षं शब्दरूपं प्रतिज्ञान्तः साध्यमध्ये निक्षिप्येत्यर्थः । अयमर्थः-विच्छिद्येतिपदेन शब्दस्य पक्षावहिष्करणाच्छब्देति पदं प्रतिज्ञायां लब्धम् , अभाववदन्वितेनेति कथनात् शब्दस्याग्रे नित्येतिपदं च । ततः पक्षशब्दस्याग्रे शब्दनित्येति जातम् । ततस्तदग्रेऽवृत्तिधर्मवानिति पूर्वश्लोकादनुवर्त्य योजितम् । तथा च सत्येवमनुमानं जातम्-शब्दः शब्दनित्यावृत्तिधर्मवान् मेयत्वात् घटाकाशादिवत् । शब्दश्चासौ नित्यश्च शब्दनित्यः, तत्र यो न वर्तते धर्मः तद्वान् शब्दः । एवंविधश्च शब्दत्वश्रावणत्वादिः साध्यो धर्मः । अत्र यदि शब्दो नित्योऽङ्गीक्रियते, तदा शब्दत्वादिधर्मः शब्दनित्यावृत्तिन भवति, शब्दरूपे नित्ये वर्तनात् । तस्माच्छन्दस्यानित्यत्वमङ्गीकार्यमिति परिशेषाच्छब्दानित्यत्वसिद्धिः ।
अथ व्यावृत्त्यचिन्ता-शब्दोऽवृत्तिधर्मवानिति कृते व्याघातः । तदर्थं नित्यावृत्तिधर्मवानिति कृतम् । तथापि नित्ये आत्मादौ न वर्तते यत् शब्दत्वादि तेन सिद्धसाधनम् । तदर्थं शब्दपदं प्रक्षिप्तम् । तथापि शब्दत्वं शब्दे नित्ये आत्मादौ च न वर्तते इति सिद्धसाधनम् , शब्दे एव वर्तनादिति न च वाच्यम् । नित्यपदसमानाधिकरणं शब्दपदं स्वनिष्ठामनित्यतां व्यावर्तयति, शब्दनित्ये वर्तयति । शब्दनित्ये वर्तनात्तु शब्दनित्यावृत्तीति न सिद्धसाधना मितिसर्वमनवद्यम् । इति पश्चदशानुमानम् ॥
For Private And Personal Use Only