SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महाविद्याविवरणम् । ૮૨ ( भुवन० ) -- अत्र पदयोजना सुगमैवेति । अत्र साध्याभावान्येत्यनेन असाधान्येति, एतद्वियुक्तान्येत्यनेन वियुक्तान्येति च, व्यावृत्तिमानित्यनेन व्यावृत्तिः साध्यते इति च व्याख्यातमि त्येवं पदयोजना कार्या । अथ व्यावृत्त्यचिन्ता – अयं शब्दः साध्याभाववानिति कृते विपरीतसाधनं स्यात् । तदर्थं साध्याभावान्यवानिति कृतम् । तथापि शब्दत्वेन सिद्धसाधनम् । तदर्थं साध्याभावान्यैतद्वियुक्तवानिति कृतम् । तथाप्येतद्वयातिरिक्ha शब्दत्वादिना estraनम् । तदर्थं द्वितीयान्यपदोपादानम् । तथापि एतदुभयातिरिक्ताद्विश्वस्मादन्यत् नित्यत्वमेव भवति । तेन सिद्धसाधनं स्यात्प्रतिवादिनः । तदर्थं व्यावृत्तिमानिति कृतम् । इति व्यावृत्त्यचिन्ता ॥ इत्येकादशोदाहरणम् ॥ 1 ( भुवन० ) - अथ व्यावृत्त्यचिन्ता । तथापि शब्दत्वेन सिद्धसाधमिनति । अयमर्थःयदि साध्याभावान्यवानिति क्रियते, तदा साध्याभावो नित्यत्वं तस्मादन्यच्छन्दत्वं, तद्वान् शब्दः स्यात्, तथा च सिद्धसाधनम् । तथाप्येतद्वयातिरिक्तेन शब्दत्वादिनेति । यदि साध्याभावान्यैतद्वियुक्तवानिति क्रियते, तदापि शब्द नित्यत्वद्वयव्यतिरिक्तं शब्दत्वमपि भवति । ततः शब्दत्वे शब्दे साध्यमाने सिद्धसाध्यतैव । तदर्थं द्वितीयान्यपदोपादानमित्यादि । तथा च सति साध्याभावान्यैतद्वियुक्तान्यः इति जातम् । तत्र साध्याभावो नित्यत्वं, तस्मादन्यद्यदेतद्वियुक्तं शब्दव्यतिरिक्तं विश्वम् । एतावता एतदुभयादन्यद्विश्वं सिद्धम् । ततोऽप्यन्यदेतद्वयमेव । तत्र शब्दः शब्दवानिति तु भवति न । आत्माश्रयबाधकतर्कसद्भावात् । नित्यत्ववानिति तु कृते तादृशस्य प्रतिवादिनः सिद्धसाध्यतैवेत्यर्थः । तदर्थं व्यावृत्तिमानित्यादि । तथा च शब्दः साध्याभावान्यैतद्वियुक्तान्यव्यावृत्तिमानिति संपूर्णा प्रतिज्ञा जाता । साध्याभावान्यैतद्वियुक्तान्यश्च शब्दो वा नित्यत्वं वा । तत्र शब्दव्यावृत्तिमत्त्वं शब्दे व्याहतत्वात् घटाकाशादिसर्वसपक्षोपयोगि । नित्यत्वव्यावृत्तिमत्त्वं तु शब्दे सिध्यत् परिशेषाच्छ्दानित्यत्वं साधयति । अत्र अनित्यः शब्दः कृतकत्वाद्धवदिति मुख्यानुमानम् । इत्येकादशोदाहरणम् ॥ 1 ( अथ द्वादशानुमानम् । ) पुनरप्येतदेव शब्दानित्यत्वानुमानं प्रथमान्यपदानुपादानेऽपि संभवतीति श्लोकार्धेन दर्शयति- असाध्येतीति । १२ असाध्यतद्वियुक्तान्यव्यावृत्तिर्वा प्रसाध्यते ॥ ८ ॥ शब्दः साध्याभावतद्वियुक्तान्यव्यावृत्तिमान् । अत्रापि तच्छब्देन पक्षपरामर्शः । अयमर्थः - असाध्येन नित्येन, तेन च शब्देन वियुक्तं असाध्यतद्वियुक्तम् । एतद्वयातिरिक्तं विश्वम् । तस्मादन्यदेत For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy