________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
भुवनसुन्दरसूरिकृतटिप्पनसमेतम् । (भुवन०)-अथ व्यावृत्त्यचिन्ता । घटः सकर्तृकादन्य इति । यदि घटः सकर्तृकादन्यः इति क्रियते, तदा घटस्य सकर्तृकात्पटादन्यत्वेन सिद्धसाधनं स्यात् । तदर्थमेतद्वदान्यसकर्तृकान्य इतीति । एवं कृतेऽपि तथैव पूर्वोक्तप्रकारेणैव सिद्धसाधनम् । एतद्बटादन्यः सकर्तृकः पटः, तस्मादन्यत्वस्य घटे सद्भावात् । तथापि पटाद्यन्यत्वेन सिद्धसाधनमिति । एतद्भुटाकुराभ्यामन्यो यः सकर्तृकः पटः, तस्मादन्यत्वस्य घटे सद्भावात् सिद्धसाधनमित्यर्थः । घटत्वेन सिद्धसाधनं अकुरत्वेन च व्याघातः इति । अयं घट एतद्घटाङ्कुरान्यान्यधर्मवानिति यदि क्रियते, तदैतझुटाकुराभ्यामन्यद्विश्वं, तस्मादन्यौ एतद्घटाङ्कुरावेव । तयोर्धर्माः घटत्वादयोऽङ्कुरत्वादयश्च । तत्र घटत्ववत्त्वे घटस्य साध्यमाने सिद्धसाधनम् । अङ्कुरत्ववत्त्वे च घटस्य साध्यमाने व्याघातः । अङ्कुरत्ववत्त्वस्य घटे अभावात् । तदर्थमेतद्घटाकरान्यान्येत्यादि । अत्र सकर्तृकपदक्षेपेऽपि सकर्तृकत्वस्याङ्करेऽद्यापि विवादास्पदीभूतत्वात् यद्यपि व्याघातो न सम्भवति, तथापि सकर्तृको यो घटस्तद्धर्मवत्त्वे घटस्य साध्यमाने सिद्धसाध्यता स्यादेवेत्यर्थः । अथवा प्रकारान्तरेणान्वयः इति । अन्वयः प्रकारान्तरेण सम्बन्धयोजनं क्रियते इत्यर्थः । एकैकमित्यादि । एकैकं उद्धृतं भिन्नं घटादि साध्यते । किम्भूतं । तद्वत् सकतृकत्वं यत् साध्यं तयुक्तमित्यर्थः । पूर्व तद्वदितिपदं 'उद्धृतावधिभेदिनः" इत्यनेन समस्तं कृतम्, अत्र तूद्धृतमित्येतस्य विशेषणं कृतमिति भेदः इत्यर्थः । अथ व्याप्तिः प्रदर्श्यते । यद्यत् प्रमेयं तत्तदेतद्धटाङ्करान्यान्यसकतृकान्यत् यथा आकाशादि । घटान्यत्वस्य आकाशादौ सर्वत्र सद्भावात् । अस्या महाविद्यायाः मुख्यानुमानमिदम्-भूभूधराङ्कुरादिसकर्तृकं कार्यत्वात् , घटवत् । इयं महाविद्या सपझं पक्षयित्वा प्रवृत्ता । इति अष्टमानुमानम् ।।
(अथ नवमानुमानम् ) अस्यैवानुमानस्य पदान्तरकरणेन भङ्गयन्तरं दर्शयति
९ तस्यैव तदवृत्तेन योगो वात्र प्रसाध्यते । अयं घटः एतद्धटाकुरान्यान्यसकर्तृकात्तिमान् ।
अयमर्थ:-तस्यैवोपलक्षणस्य पक्षस्य घटस्य । तदवृत्तेनेति-एतद्धटा. रान्यान्यसकर्तृकावृत्तेन योगः संबन्धः साध्यते । वर्तनं वृत्तः(त्तिः)तेन वर्तनेन इत्यर्थः । अन्त्यस्य अन्यपदस्य स्थाने वृत्तिमानिति पदान्तरकरणेनेत्यर्थः । वाशब्दो भङ्गयन्तरसूचनार्थः । अत्रापि व्यावानि पूर्वोक्तोदाहरणकथिता. न्येव । अर्थस्य अर्थ्यधीनत्वात् । इति नवममनुमानम् ॥
(अथ नवमानुमानम् ।) (भुवन०)-तस्यैवेतीति ।
" तस्यैव तदवृत्तेन योगो वात्र प्रसाध्यते ॥९॥
For Private And Personal Use Only