SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भुवनसुन्दरसूरिकृतटिप्पनसमेतम् । तस्माच्छब्दाधिकरणबहुत्वं पारिशेष्यात् सिद्धम् । आकाशे च मेयत्वं पुराप्युभयसिद्धं, भिन्नत्वं च प्रतिवादिनोऽसिद्धं अनेन अनुमानेन साध्यते । अत्राकाशं आकाशादन्यदेवमपि वदने अर्थस्य अनन्यत्वमेव, परं महाविद्यानुमानत्वेन किञ्चिद्वक्रच्छाययोक्तम् । एवं च सर्वेषामेकत्वेन अङ्गीकृतानामनेकत्वं साधनीयम् । अत्र च मुख्यानुमानमिदम्-दिक्कालाकाशाः अनेके, द्रव्यत्वात् , घटवत् । इयं च महाविद्या पक्षं पक्षयित्वा प्रवृत्ता । इति सप्तममनुमानम् ॥ ( अथ अष्टमानुमानम् । ). अथ पुनरपि सकर्तृकत्वसाधनव्याजेन सर्वसाधकप्रकारान्तरदर्शनाय सङ्ग्राहक श्लोकमाह-पक्षापक्षेतीति । ८ पक्षापक्षविपक्षान्यवर्गादेकैकमुद्धृतम् । भिन्नं साध्यवतस्तददुद्धृतावधिभेदिनः ॥६॥ अयं घटः एतद्बटाङरान्यान्यसकर्तृकान्यः ।। तस्य अयमर्थः-पक्षो वास्तवः संदिग्धकर्तृकः अङ्कुरादिः, अपक्षः सपक्षो निश्चितकर्तृको घटादिः, विपक्षोऽकर्तृकः आकाशादिः। तदन्यवर्गात्पक्षापक्षविपक्षान्यवर्गात् । अन्यतमवर्गादेकैकमुद्धृतं भिन्नं साध्यते इति सम्बन्धः । कस्मात् । साध्यवतः सकर्तृकात्। ततः किम्भूतात्। तबदुतावधिभेदिनः । तद्वान्साध्यवान् यो घटादिरुद्धृतः(स एव)प्रत्यवधित्वेन भेदो विद्यते यस्य साध्यवतः स तद्वदुहृतावधिभेदी तस्मात् । एतेन सपक्षस्यैव पक्षत्वमिति सूचितम् । तथा च विपक्षवर्गादेकोडाराभावेन असङ्गतत्वं परिहृतम् । यतोऽप्यत्र अन्यत्वं अन्यतमत्वं विवक्षितम् । अन्यतमत्वं च त्यापेक्षया एकस्यापि भवति, योरपि भवति, व्यक्तिभेदेन त्रयाणामपि भवति । तत्र द्वयोरप्येकोद्धारः संभवत्येवेति न दोषः कश्चित् । एकैकेति वीप्सायाश्चरितार्थत्वात् । तथा चायमर्थः पर्यवसितः स्यात् । एतद्धटाकुरादन्यविश्वं तस्मादन्यत्सकर्तृकम् । एतवयान्यतमत् । तद्न्यत्वे साध्यत्वे घटः स्वरूपाद्भिन्नः इति विरुद्धम् । अतोऽड्कुरात्सकर्तृकादन्यः इति परिशेषादागच्छति। अथ पदयोजना--अत्र पक्षापक्षविपक्षान्यवर्गादेकैकमुहृतमिति एतटाकुरान्यान्येत्यनेन व्याख्यातम् । भिन्नमित्युद्धृतविशेषणेन उद्धृतयोरेव पक्षसपक्षयोरेव प्रतियोगित्वख्यापनान्मध्यगतान्यपवयोपादानमपि सूचित. मिति पदयोजना। १ साध्ये घ” इति ख पुस्तकपाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy