SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महाविद्याविवरणम् । १७१ (भुवन०)-तथा च सत्तया सिद्धसाधनमिति । अशब्दा घटादयः, तत्र वर्तनादशब्दधमत्वं तस्याः। ततः सिद्धसाधनं तयेत्यर्थः । तथा च घटशब्दान्योन्याभावेन सिद्धसाधनमिति । शब्दो नानानित्यावृत्यशब्दधर्मवान् इति प्रतिज्ञायां घटशब्दान्यविश्वप्रतियोगिको यो घटशब्दान्योन्याभावः तेन सिद्धसाधनं स्यात् । घटशब्दान्योन्याभावस्य नानानित्येष्ववर्तनात्, घटे वर्तमानत्वेन अशब्दधर्मत्वाञ्चेत्यर्थः । अत्र च अनित्यत्वं साध्यो धर्मः, अथवा घटशब्दान्यतरत्वादिः । स च घटशब्दयोरेव वर्तनाच्छब्दस्यानित्यत्वे नित्यत्वे वा नानानित्येषु न वर्तते । अशब्दो घटादिस्तद्धर्मश्वास्ति, परं स धर्मः घटशब्दान्यतरत्वादिः अनित्यनित्यावृत्तिस्तदैव, यदि शब्दस्यानित्यत्वं स्यात् । अन्यथा स धर्मो नित्ये शब्दे मनित्ये घटे च वर्तनादनित्यनित्यवृत्तिरेव स्यात् । तस्माच्छब्दः अनित्यः स्वीकार्यः। अत्र दृष्टान्ताः घटाकाशादयः तद्धर्माश्च सर्वेऽपि ज्ञेयाः । तत्र सर्वत्र च घटत्वाकाशत्वादीनां स्वस्वमात्रनिष्ठधर्मेण साध्यानुगमो द्रष्टव्यः । अत्रानुमाने नानेति पदमाकाशादिदृष्टान्तार्थम् । अन्यथा आकाशे आकाशत्वं यदस्ति तन्नित्ये आकाशे वर्तनान्नित्यवृत्त्येव स्यात् , न नित्यावृत्ति । मानेति पदोपादाने चाकाशत्वादि यद्यपि नित्यावृत्ति न स्यात् , तथापि नानानित्येष्ववर्तनान्नानानित्यावृत्ति भवत्येवेत्यर्थः । इति तृतीयानुमानम् ॥ ( अथ चतुर्थानुमानम् ।) एवं शब्दानित्यत्वसाधनव्याजेन अभीष्टार्थसाधकप्रकारत्रयमुपदर्शितम् । इदानीं पृथिवीत्वसाधनव्याजेन अभीष्टान्तरसाधकं प्रकारान्तरं दर्शयितुं संग्राहकं श्लोकार्धमाह ४ पक्षापक्षगतादन्यत्साध्यवद्वैधर्जितम् ॥ ४॥ गन्धवन्तो गन्धवदगन्धावृत्तिगन्धवद्वृत्त्यन्यवन्तः ॥ अयमर्थः-पक्षो वास्तवः, अपक्षो विपक्षः, तत्र मिलिते गतं गमनं यस्य तत्पक्षापक्षगतम् । तस्मादन्यत् पक्षापक्षगतादन्यत् । तद्धर्मान्तरं साध्यते इति संबन्धः । किंभूतम् । साध्यवद्वैधवर्जितम् । साध्यवान् पक्षः, तत्र यत् वैधं, तत्र वृत्तिः अवृत्तिश्च तदर्जितम् । वर्तमानावर्तमानत्वरहितमित्यर्थः। अथ श्लोकपदानुमानयोजना-अत्र गन्धवदित्यनेन पक्षेति व्याख्यातम् । अगन्धेत्यनेन अपक्षेति व्याख्यातम् । अवृत्तीत्यनेन अन्यदिति, साध्यवद्वैधवर्जितमिति च गन्धववृत्त्यवृत्त्यन्यधर्मवन्तः इत्यनेन, इति मिथो योजना। (अथ चतुर्थानुमानम् ।) (भुवन०)-अथ पृथिवीत्वसाधनव्याजेन अभीष्टान्तरसाधकं कारिकाद्धै व्याचिकीर्षुः प्राहपक्षापक्षेतीति । तथाहि १ रत्रितयमु इति ख पुस्तकपाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy