SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ भुवनसुन्दरसूरिकृतटीकायुतं अथ पक्षनिष्ठव्यापकप्रतीत्यपर्यवसानात्पक्षे अनित्यत्वसिन्डिरिति मन्यसे। तन्न। किमिदमयं शब्दः स्वस्वेत्तरवृत्तित्वरहितानित्यनिष्ठाधिकरणमिति पक्षनिष्ठव्यापकप्रतीतेरनित्यत्वमन्तरेण अपर्यवसानं अनित्यत्वमनालम्व्यानुपपत्तिा, अनित्यत्वालम्बनत्वनियमो वा। नाद्यः। अनित्यत्वमनालम्ब्य प्रतीतेरनुपपत्तिर्नाम किमनित्यत्वानालम्बनायाः प्रतीतेः प्रागभावः, किंवा अनित्यत्वाना. लम्बनः प्रतीतेः प्रागभावः । नाद्यः । अनित्यत्वानालम्बनत्वे तस्या विवक्षितानित्यत्वगोचरत्वव्याघातात् । नापि द्वितीयः । अनित्यत्वानालम्बनस्य एतत्प्रतीतिप्रागभावस्य एतत्प्रतीत्यनित्यत्वगोचरत्वाक्षेपकत्वे मानाभावात् । नापि द्वितीयः । पक्षनिष्ठव्यापकप्रतीतेरनित्यत्वालम्बनत्वनियमस्य असिद्धः। (भुवन० )-परः स्वाभिप्रायं प्रादुश्चरीकरीति-अथ पक्षेति । पक्षे शब्दादौ निष्ठं यद्व्यापकं महाविद्यासाध्यं तत्प्रतीतेर्यदपर्यवसानमनुपपत्तिः, तस्मादिति परमार्थः । दूपयति-तन्नेति । स्वस्वेतरेत्यादिरूपं यत्पक्षनिष्ठं व्यापकं महाविद्यासाध्यं तत्प्रतीतेरनित्यत्वं विनाऽपर्यवसानं किमिदमित्यन्धयः । विकल्पयति-अनित्यत्वमिति । अनित्यत्वालम्बनात् विना महाविद्यासाध्यस्य शब्देऽनुपपत्तिरित्येको विकल्पः । अनित्यत्वेति । शब्दे प्रकृतसाध्यसाधनेऽनित्यत्वमालम्बनीयमेव नियमेनेति द्वितीयः । आद्यं विकल्पं द्विधा विकल्प्य खण्डयति-नाद्यः इति । अनित्यत्वमनालम्ब्य प्रतीतेरनुपपत्तिः किंरूपा, अनित्यत्वानालम्बना या प्रतीतिः तस्याः प्रागभावः । अनित्यत्वानालम्बना प्रतीतिनोंत्पद्यत इत्यभिप्रायः । किं वेति । अनित्यत्वालम्बनं विना प्रतीतिर्नोपपात इति रहस्यम् । आद्यं प्रति प्राह-नाद्यः इति । तस्याः प्रतीतेयदि अनित्यत्वस्यानालम्बनत्वं, तदा विवक्षित पक्षीकृतशब्दनिष्ठं यदनित्यत्वं तद्गोचरत्वव्याघातः इति हृदयम् । अपरं पक्षं निराकुरुते-नापीति । अनित्यत्वानालम्बनं पक्षीकृतशब्दे महाविद्यासाध्यप्रतीतेः प्रागभावः पक्षे प्रकृतसाध्यप्रतीतेरनित्यत्व. गोचरत्वं आक्षिपतीत्यत्र मानं नास्तीत्याकूतम् । पूर्वकल्पयोरौदीव्यं कल्पं निरसितुमाह-नापि द्वितीय इति । द्वितीयोऽनित्यत्वालम्बनत्वनियमरूपः । इह हेतुं वदति-पक्षनिष्ठेति । पक्ष: शब्द. घटादिः, तनिष्ठं व्यापकं महाविद्यासाध्यं, तत्प्रतीतिः शब्दस्यानित्यत्वमालम्बते एवेति नियमस्यासिद्धेरिति । अथ मतं, अस्ति तावडूमवत्त्वादग्निमात पर्वत इत्यनुमानानन्तरं पर्वत. निष्टवन्हिविशेषे पाकार्थिनां प्रवृत्तिः तत्प्राप्तिश्च । तेन अवश्यं पर्वतो वन्हिमानित्यत्र वन्हिविशेषस्फूर्तिरङ्गीकर्तव्या । न च वन्दिमत्त्वमेवासी, नापि तस्य व्यापकः ! वन्हिमत्त्ववतोऽपि महानसादेावृत्तत्वात् । न च अव्यापक १ व्यापकत्वप्रती इति घ पुस्तक पाठः । २ विवक्षितः पक्षीकृत शब्दस्तदनित्यत्वगो' इति छ द पुस्तकपाठः। For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy