________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
भुवनसुन्दरसूरिकृतटीका युतं
दूषयति-न मूलेति । मूलानुमानं शब्दानित्यत्वसाधकं महाविद्यानुमानं तदनैकान्तिकत्वस्य परिहारायोपयुक्तानुमानपरंपरापि नोपरमते इति तात्पर्यार्थः । परः आह - श्रमादिति । तस्याः पूर्वानुमानपरंपराया उपरमः इत्यर्थः । प्रत्याचष्टे – तुल्यमिति । अस्माकमपि श्रमात्तदुपरम इति रहस्यम् । साधकबाधकयोरभावे संशय: परिशिनष्टिीत्याह -- एवं सत्युभयोरिति । आपाततः स्वीकुरुते — एवमस्त्विति ।
किञ्च साध्याभाववद्वृत्तित्वाभावनिश्चयोऽनुमानाङ्गमित्युक्तम् । न चासौ साध्याभाववद्वृत्तित्वानुमाने प्रत्यनीके सति संभवति । तेन साधनवादिन एव पराजय इति गुरवः ।
( भुवन० ) - महाविद्या विडम्बनाभिमानस्तवापि गलितोऽवाह - किञ्चेति । साध्याभाववान्विपक्ष:, तद्वृत्तित्वाभावनिश्चयोऽनुमानाङ्गमिति पूर्वमुक्तम् । न चासौ विपक्षवृत्तित्वाभावनिश्चयः साध्याभाववान्विपक्षस्तद्वृत्तित्वसाधके अनुमाने प्रत्यनीके विपरीते सति सम्भवति । किं तर्हित्याहतेन साधनेति । साधनवादिनो महाविद्यावादिनः एव पराजयः पराभव इति गुरवः प्रभाकराचार्याः प्राहुरिति संङ्कः ।
अथार्थान्तरता नाम कृत्या नृत्यति सङ्गरे ।
सप्रपञ्चमहाविद्याग्रासकौतूहलाकुला ।। १९ ॥
( भुवन० ) – अर्थान्तरतामाविष्कर्तुं प्रक्रमते - अथार्थान्तरेति । कृत्या अनर्थकरी देवता राक्षसीत्यर्थः । सप्रपञ्चाः सविस्तराः याः महाविद्यास्तगासे यत्कौतूहलं तेनाकुला । अत्र महाविद्यावादिप्रतिवादिनोर्विवादसङ्ग्रामे नानाप्रकारसारयुक्तिपङ्क्तिहेतिसंहतिहन्यमाना असमानमहाविद्यानुमानप्रयोगप्रतिभटघटा कोटिप्रसृतसदर्थसार्थरक्तासवपानमदोन्मत्तायाः अर्थान्तरताकृत्यायाः नृत्यं चतुरस्रमेव ॥ १९ ॥
शब्दे शब्दतदन्यवृत्तिरहितानित्यस्थवस्वे मिते
नित्यत्वप्रमितिः कथं न हि तयोरैक्यं न च व्याप्तता । नो साम्यान्यविशेषता न च ततो बोधे प्रकारान्तरं
सैषार्थान्तरताखिलामपि महाविद्यां समास्कन्दति ॥ २० ॥
( भुवन ० ) - अर्थान्तरतां पद्येन प्रतिपादयति - शब्दे शब्द तदन्येति । शब्दे पक्षीकृते शब्दतदन्यवृत्तिरहिता नित्यस्थवत्त्रे मिते स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाश्रयत्वे सिद्धेऽप्यनित्यत्वप्रमिति: कथं, किं स्वस्वेतरेत्यादिसाध्यस्यानित्यत्वेन ऐक्यात्, उत अनित्यत्वेन व्याप्तवात्, आहोस्विदनित्यत्वस्य तद्विशेषणत्वात् । न प्राच्यः इत्याह-न हि तयोरैक्यमिति । तयोः स्वस्वेतरेत्यादिमहाविद्यो - साध्याऽनित्यत्वयोरैक्यमेकात्मता न ह्यस्ति । उक्तसाध्यवतो गगनादेरनित्यत्वस्य व्यावृत्तत्वात् । अत एव नोत्तर: पक्ष: इत्याह-न व व्याप्ततेति । न च स्वस्वेतरेत्यादिसाध्यस्यानित्यत्वेन १ "विद्याऽनित्यत्व' इति च पुस्तक पाठः ।
For Private And Personal Use Only