________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३ महाविद्याविडम्बनम्।
१२७ व्याप्यत्वाभावसिद्धिः । एतदेव विशदयति-न हीति । प्रकृतं साध्यं महाविद्यासत्कं मेयत्वस्या. व्यापकं, मेयत्वं च तेन महाविद्यासाध्येन व्याप्यमित्ययुक्तं, व्याघातादित्यर्थः । उक्ते मूलपदं दर्शयति-तदिदमिति । तदेव व्याचष्टे-अभिमतमिति । अभिमतं साध्यं महाविद्यासाध्यं, तेल व्याप्यत्वं तद्व्याप्यत्वमिति।
किञ्च अयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणमित्यत्र अयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वरहितः एतदन्यत्वरहितत्वादित्यादयः प्रतिपक्षाः । न च पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वरहितत्वमप्रसिद्धमितिवाच्यम् । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं स्वस्वेतरवृत्तित्वरहितकुतश्चिद्व्यावृत्तनिष्ठाधिकरणं मेय. त्वात् घटवदिति तत्सिद्धेः।
(भुवन०)-प्रतिपक्षं लक्षयति-किश्चेत्यादि । अयं शब्दः स्वस्वेतरेत्यादिमहाविद्यासाध्येन रहितः एतदन्यत्वरहितत्वात् । एतच्छब्दाद्यदन्यत्वं तेन रहितत्वात् एतच्छब्दत्वात् । व्यतिरेके घटादि कुतो न वाच्यमत्राह-पक्षीकृतेति । एतन्महाविद्यासाध्यं पक्षः । स्वस्वेतरवृत्तित्वरहितश्चासौ कुतश्चिद्व्यावृत्तनिष्ठश्चेति विग्रहः । इह स्वमात्रवृत्तिरेतन्महाविद्यासाध्यत्वादिको धर्मः पक्षे साध्यः । स च कुतश्चिध्यावृत्तनिष्ठस्तदेव, यदि पक्षितं महाविद्यासाध्यं कुतश्चिद्व्यावृत्तं भवेत् । यतश्च तद्व्यावृत्तं स महाविद्यासाध्यरहितः संपन्न एवेति पक्षितमहाविद्यासाध्यरहितत्वप्रसिद्धिः । पक्षान्योन्याभावमुपादाय साध्याधिगमः ।
अयं शब्दो नित्यः शब्दत्वादिति वा प्रतिपक्षः । न चायं पक्षधर्मोऽपि सपक्षविपक्षव्यावृत्तत्वादसाधारण इति वाच्यम् । व्याप्तिपक्षधर्मतयोरखण्डने असाधारणस्य दूषणत्वानङ्गीकारात् । व्याप्यत्वानिश्चयादयमगमक इति चेत् । न । शब्दत्वं स्वस्वेतरवृत्तित्वरहितनित्यत्वव्याप्यनिष्ठाधिकरणं मेयत्वात् घटवदिति व्याप्यत्वसिद्धेः । तदिदमुक्तं आचष्टे प्रतिपक्षमात्मविषयमिति । आत्मविषयं प्रतिपक्षं निर्धारयतीत्यर्थः ।
(भुवन०)-न चायमिति । अयं शब्दत्वादिहेतुः पक्षधोऽपि सपक्षविपक्षाभ्यां व्यावृत्तत्वादसाधारणानैकान्तिकः । सति सपक्षे सपक्षाप्रवेशी असाधारणानैकान्तिकोऽनैकान्तिकभेदो वा अनद्धयवसितो वा । अत्र च नित्यत्वे साध्ये गगनादीनां सपक्षत्वेऽपि हेतोः सपक्षाप्रवेशादसाधारणत्वमिति रहस्यं । हेतुमाह-व्याप्तिपक्षेति । व्याप्तिश्च पक्षधर्मता च व्याप्तिपक्षधर्मते, तयोरखण्डने सति असाधारणानैकान्तिकत्वस्य दूषणत्वं नोरीक्रियते इत्यन्वर्थः । परमार्थस्त्रयम् । 'व्याप्तिपक्षधर्मतावल्लिङ्गमिति लक्षणाद्व्याप्तिपक्षधर्मते एवाखण्डिते विलोक्यते इति । आशङ्कतेव्याप्यत्वेति । अयं शब्दत्वादिति हेतुर्नित्यत्वसाध्येन यद्व्याप्यत्वं हेतोः, तदनिर्णयादगमकः साध्य स्याज्ञापक इत्यर्थः । समाधत्ते-न । शब्दत्वमिति । स्वस्वेतरवृत्तित्वरहितो धर्मः एतत्पक्षत्वादिः
For Private And Personal Use Only