________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
भुवनसुन्दरसूरिकृतटीकायुतं पर्वतेतरत्वोपाधौ उद्भाविते पक्षस्यैव व्यावर्तनात्पक्षेतरत्वम् । पक्षेतरस्योपाधित्वे च सर्वानुमानोच्छेदप्रसङ्ग इत्यर्थः । कुतो न युक्तमत्राह-व्यापकेति । व्यापक उपाधिः, तव्यावृत्तौ व्याप्यस्य साध्यस्य व्यावृत्तेरवश्यंभावित्वेन मेयत्वादिसाधनवति पक्षे शब्दे एव व्याप्तिभङ्गात् । तथाहि-यत्र साध्यं तत्रोपाधिर्यथा घटादौ, यत्र चोपाधेरभावस्तत्र साध्यस्याप्यभावो यथा शब्दे एव इति । उपाधिावर्तमानः साध्यमपि व्यावर्तयतीत्युपाधिना साध्यस्य गृहीतत्वात्साध्यसाधनयोर्व्याप्तिभङ्गः इत्युपाधेः साफल्यमित्याशयः । विपर्यये बाधकमभिधत्ते--अन्यथेति । यदीदृशोऽपि नोपाधिः, तर्हि स्थलान्तरे अनुमानान्तरेऽप्युपार्दूषणत्वं नोपपद्यते इत्यर्थः ।
किश्च पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वव्यापकत्वं स्वस्वेतरवृत्तित्वरहितमेयत्वाव्यापकनिष्ठाश्रिताधिकरणं मेयत्वात् घटवदिति चोपाध्यनुमानम् । मेयत्वाव्यापकत्वं स्वस्वेतरवृत्तित्वरहितपक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वव्यापकनिष्टाधिकरणं मेयत्वात् घटवदिति चोपाध्यनुमानः। पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वव्यापकत्वं च मेयत्वादावेव सिद्धम् । मेयत्वाव्यापकत्वं चानुष्णत्वादी सिद्धमिति नानयोराश्रयासिद्धत्वादि शङ्कनीयम् । तदिदमुक्तं प्रोन्मीलयत्यात्मनःसोपाधित्वमिति । व्याप्यत्वासिद्धं च मेयत्वम् । मेयत्वं स्वस्वेतरवृत्तित्वरहितपक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वाव्याप्यनिष्ठाधिकरणं मेयत्वादिति व्याप्यत्वाभावानुमानात् ।
(भुवन०)-अथ पुनरपि पक्षेतरत्वोपाधेः साधनाव्यापकत्वं चानुमानाभ्यां दर्शयतिकिं च पक्षीकृतेत्यादि । महाविद्यासाध्यव्यापकत्वं पक्षः, मेयत्वस्य अव्यापके निष्ठो मेयत्वाव्या. पकनिष्ठः, तस्याश्रितो मेयत्वाव्यापकनिष्ठाश्रितः । स्वस्वेतरवृत्तित्वरहितश्चासौ मेयत्वाव्यापकनिष्ठाश्रितश्च तदधिकरणमिति पदान्वयः । स्वस्मिन् महाविद्यासाध्यव्यापकत्वे पक्षीकृते स्वस्मात्पक्षादितरस्मिंश्च वृत्तित्वरहितः स्वमात्रवृत्तिर्वा स्वेतरमात्रवृत्तिा । तत्र द्वितीयः पक्षान्योन्याभावादिः पक्षे व्याघातान्निषिद्धः । स्वमात्रवृत्तिस्तु एतत्पक्षत्वं धर्मः पक्षे सिध्यति । स च धर्मो मेयत्वस्य अव्यापके निष्ठो यो धर्मस्तदाश्रितस्तदैव, यदि महाविद्यासाध्यव्यापकत्वरूपः पक्षो मेयत्वाव्यापकनिष्ठः स्यात् । तथा च यैर्हि महाविद्यासाध्यव्यापकत्वमुपाधिधर्मो मेयत्वाव्यापकनिष्ठो जातः, तर्हि मेयत्वरूपसाधनान्यापकः उपाधिर्जात: एवेति पक्षीकृतशब्देतरत्वोपाधेः साधनाव्यापकत्वम् । अत्र सपक्षे स्वेतरमात्रवृत्तिरेतत्पक्षान्यत्वादिर्धर्मोऽवगन्तव्यः । स च धर्मो मेयत्वाव्यापको घटादिः, तन्निष्टो घटत्वादिर्धर्मस्तदाश्रित एवेति साध्यप्रसिद्धिः । आश्रिताधिकरणमित्युक्ते एतत्पक्षमात्रवृत्तिधर्मणोपाधेः साधनव्यापकत्वेऽप्युपपद्यमानेन अर्थान्तरम् । तन्निवृत्तये मेयत्वाव्यापकनिष्ठेति । एतावत्युच्यमाने च मेयत्वादिना अर्थान्तरत्वम् , अत उक्तं स्वेतरवृत्तित्वरहितेति । तथापि सपक्षे
१ 'दृत्तिरहि इति च पुस्तकपाठः । २ यदि महा इति छ पुस्तकपाठः ।
For Private And Personal Use Only