________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प०३ महाविद्याविडम्बनम् ।
११९ __ (भुवन०)-सत्प्रतिपक्षतां प्रयोगान्तरेण स्पष्टयति-यद्वैवामिति । इदानीन्तनं यत्पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं महाविद्यासाध्यं तेन रहितो यस्तद्वान्वर्तमानः काल: इत्यन्वयः । अनुमानं व्याचष्टे-इदानींतनेति । आधः पक्षे इति । आद्यः इदानीन्तनत्वरहितरूपः पक्षे व्याहतः, सपक्षे च सार्थकः । व्याघातमाह-नहीति । वर्तमानकालधर्मस्य इदानीसत्त्वादिदानीन्तनत्वरहितत्वं व्याहतमित्यर्थः । द्वितीयं पक्षं व्याख्याति-पक्षीकृतेत्यादि । महाविद्यासाध्यरहितः पक्षितशब्दः एवेत्यर्थः । हेतुमाह-पक्षीकृतशब्दान्येति । पक्षीकृतशब्दान्यत्वधर्मस्य पक्षशब्दादन्यस्मिन्नेव वर्तनात्यक्षीकृतशब्दतदितरवृत्तित्वरहितस्य तथा घटादयोऽनित्यास्तेषु निष्ठस्य पक्षीकृतशब्दव्यतिरिक्त सर्वस्मिन् घटात्मादौ घटनात् । तेन पक्षीकृत इति । तेन हेतुनैवंविधमहाविद्यासाध्यरहितः पक्षितशब्दः एव । तद्वांश्च वर्तमानः काल इत्याशयः । सिद्धं दर्शयति-पक्षीकृतशब्द इति । अयमर्थः---महाविद्यासाध्यं शब्दानित्यत्वसाधनायोपन्यस्तम् । तञ्चेच्छब्दे न वर्तते, तर्हि शब्देऽनित्यत्वस्य योऽभावो नित्यत्वं तस्य सिद्धिरभूदेव । अथ व्यावर्त्यचिन्ता । अतीतकालेन भागे सिद्धसाधननिवारणाय वर्तमानः काल इति प्रोक्तं । अप्रसिद्ध विशेषणतां निवारयति-इदानीन्तनेत्यनेन । व्याघातं परिहरति-पक्षीकृतेत्यादिना । अर्थान्तरता अप्रसिद्धविशेषणता च मा भूदिति रहितेतिपदग्रहणम् । एवमिदानीमिति । इदानीन्तनत्वेन विशेषितं यत्सकलमहाविद्यासाध्यवत्त्वं तेन रहितः पक्षीकृतशब्दादिः, तेनान्वितो यो वर्तमानकाल: तत्साधनेनेत्यर्थः।
न च अनिदानींतनकालत्वमुपाधिः । पक्षातिरिक्तव्यावाभावेन पक्षेतरत्वग्रस्तत्वात् । अयं कालः इदानींतनैतदुपाधिव्यतिरिक्तैतत्साध्यव्यापकव्यतिरिक्तैतत्साध्यव्यापकवान् कालत्वादित्यादिना प्रकृतोपाधेः प्रकृतसाध्यव्यापकत्वभङ्गाच । इदानींतनैतदुपाधिव्यतिरिक्तैतत्साध्यव्यापकव्यतिरिक्तो हि इदानींतनत्वरहितो वा स्यात्, एतदुपाधिव्यतिरिक्तैतत्साध्याव्यापकव्यतिरिक्तो वा । आद्यः पक्षे व्याहतः । एतदुपाधिव्यतिरिक्तैतत्साध्याव्यापकव्यतिरिक्तोऽपि एतत्साध्यव्यापको वा अयमुपाधिर्वा । आद्यः एतत्साध्याव्यापकपदेन निरस्तः । द्वितीये पुनरस्योपाधेरेतत्साध्याव्यापकत्वसिद्धिरिति । प्रकृतहेतुव्यापकाभावाव्याप्यत्वान्नायं प्रकृतहेतुप्रतिपक्षः, धूमवत्त्वादिवदिति चेत् । न । प्रकृतहेतुप्रतिपक्षत्वाप्रमितौ, तदभावसाधनस्य अप्रसिद्धविशेषणत्वात् । अत्रैव तत्पमितौ, तदभावसाधनस्य बाधितत्वात् । एतद्व्यतिरिक्तस्थले च तत्पमितौ तेनैव सत्प्रतिपक्षत्वस्य दुर्वारत्वादिति ।
(भुवन०)-उपाधिशङ्कां निरस्यति-न चानिदानीमिति । न चातीतकाले अनिदानीन्तनकालत्वमुपाधिः । हेतुमाह-पक्षातिरिक्तेति । यत्र अनिदानीन्तनकालत्वं नास्ति, तत्रेदानी
१ धर्मस्य इदानीन्तनत्वरहि इति छ द पुस्तकपाठः ।
For Private And Personal Use Only