SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५०३ महाविद्याविडम्बनम् । पदार्थाः, तेषु निष्ठो योऽत्यन्ताभावस्तस्य यत्प्रतियोगित्वं, तेन यद्रहितत्वं, तदश्रावणत्वादीनामुपाधीनामनित्यत्वरूपसाध्यस्य व्यापकत्वं दर्शितम् । इदमत्र हृदयम् । यत्र यत्रानित्यत्वं तत्र तत्राश्रावणत्वं यथा घटादावित्येवमुपाधेः साध्यव्यापकत्वम् । तदनेनेत्यादि । तत्तस्मात्कारणात् अनेन अनन्तरोक्तेन मेयत्ववन्तो मेयभावाः तेषु निष्ठो योऽत्यन्ताभावः तस्य यत्प्रतियोगित्वं तदश्रावणत्वादीनां मेयत्वादिसाधनस्याव्यापकत्वमित्यर्थः । एतावता मेयत्वसाधनंवत्स्वपि अश्रावणत्वोपाधिर्नास्ति । तथा च यत्र यत्र मेयत्वं तत्र तत्र अश्रावणत्वं नास्ति, शब्दत्वादौ मेयत्वसत्त्वेऽप्यश्रावणत्वाभावादित्यश्रावणत्वस्य साधनाव्यापकत्वम् । श्रवणेन्द्रियेति । अश्रावणत्वमित्यर्थः । __ अयमभिप्रायः । साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधित्वम् । साध्यं च तदेव यद्विप्रतिपन्नं प्रति पक्षे मेयत्वेन बोधयितुमभिप्रेतम् । अयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणं इत्यत्र अनित्यत्वं च परं प्रति पक्षे मेयत्वेन बोधयितुमभिप्रेतम् । तस्मादनित्यत्वरूपसाध्यव्यापको मेयत्वादिसाधनाव्यापकः श्रोत्रग्राह्यात्यन्ताभावः उपाधिर्भवेत्येव । (भुवन०)-अश्रावणत्वं नोपाधिः, नित्ये गगनादौ अश्रावणत्वोपाधिसद्भावेऽप्यनित्यत्वसाध्याभावेन समव्याप्तिकत्वाभावादित्याशङ्कयाह-अयमभिप्रायः इति । अत्र समव्याप्तिन विवक्षितेतिभावः । किं तत्साध्यं यस्य व्यापक उपाधिरत्राह-साध्यं चेति । पक्षे मूलानुमानपक्षे शब्दे इत्यर्थः । अयं शब्दः स्वस्वेतरेत्यादि । उपलक्षणं चेदम् । तेनात्र अन्यान्यपि पूर्वोक्तमहाविद्यानुमानानि मन्तव्यानि । अथ साध्यव्यापकः साधनाव्यापक इत्यत्र साध्यपदेन व्यापकत्वाभिमतं विवक्षितम् । प्रकृते च पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं व्यापकम् । न च तस्य श्रावणत्वात्यन्ताभावो व्यापकः । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्ववत् शब्दत्वादिनिष्ठात्यन्ताभावप्रतियोगित्वात् । तेन साध्यव्यापकताभावान्नायमुपाधिरिति मन्यसे । तन्न । किं व्यापकत्वाभिमतव्यापकः साधनाव्यापक इत्युपाधिसामान्यलक्षणं, किंवा प्रकृतसाध्यसाधनसंबन्धोपाधिलक्षणम् । नाद्यः । व्याघातात् । यत्किञ्चिद्यापकौभिमतव्यापकस्य स्वात्मादिकिञ्चित्साधनव्यापकत्वेन साधनाव्यापकत्वानुपपत्तेः । नापि द्वितीयः । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वव्यापकमेयत्वव्यापकस्य भवद्भिरनङ्गीकाराल्लक्ष्यलक्षणयोरप्यसिद्धेः, सिद्धौ वा सोपाधित्वस्य दुर्वारत्वादिति । १ साधनवत्सु अश्रा इति छ द पुस्तकपाठः । २ भवेदेव । इति घ पुस्तकपाठः । ३ प्रकृतसाध्यव्याप. कत्वे सति प्रकृतसाधनाव्यापकत्वमुपाधिलं इति घ पुस्तकपाठः । ४ "व्यापकत्वाभि इति घ पुस्तकपाठः। For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy