________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
भुवनसुन्दरसूरिकृतटीकायुतं (भुवन०)-केवलान्वयिनि विपक्षाभावः किमप्रयोजकः प्रयोजको वा । आये पक्षे अत्पूर्वमविद्यमानविपक्षत्वे सतीत्यादिलक्षणमभ्यधायि, तस्य लक्षणत्वासम्भवः । द्वितीयेऽतिप्रसङ्गः, तमेव दर्शयति-किश्च विपक्षेति । यदि विपक्षाभावोऽनुमानाङ्गं, तदानीं केवलव्यतिरेकिणोऽन्दयव्यतिरेकिणश्च हेतोर्विपक्षसत्त्वेनानुमितिजनकत्वं न स्यात् । अनन्तरोक्तव्याप्यत्वलक्षणेऽविद्यमानविपक्षत्वं दूषयित्वा सपक्षे सत्त्वमपि दूषयति-सपक्षे इति । ननु यथान्वयव्यतिरेकिणि सपक्षसत्त्वस्य प्रयोजकत्वं, तथा केवलान्वयिन्यपि सपक्षसत्त्वस्य प्रयोजकत्वं भविष्यतीति पराभिपायमाशङ्कयाह-एतेनेत्यादि । एतावतान्वयव्यतिरेकिण्यपि हेतौ सपक्षसत्त्वापरपर्यायस्याज्वयस्य यदनुमितिजनकत्वं तन्निरस्तम् । इदमत्र तत्त्वम् । अन्वयव्यतिरेकिणि सपक्षसत्त्वस्य 'प्रयोजकत्वाभावात्केवलान्वयिन्यपि तस्य न प्रयोजकत्वम् । एतेन व्याप्यत्वलक्षणे सपक्षे सत्त्वमपि व्युदस्तं मन्तव्यम् ।
तस्मात्साध्याभावववृत्तित्वविरहो व्यतिरेकापरपर्यायो व्याप्यत्वमनुमानबीजमिति स्थिते केवलान्वयिनो व्याप्यत्वासिद्धिर्दुरेति । तदिदं यथेष्टचारिण्या महाविद्यया संसर्गमनुभवतः केवलान्वयिनः प्राणान्तिकं प्रायश्चित्तम् । न च वैशेषिकादीनां केवलान्वयिनं निराकुर्वतामपसिद्धान्तः । सूत्रकारभाष्यकाराभ्यां कचिदपि तदव्युत्पादनात् । टीकाकारादीनां चास्माभिस्नादरणात् । आदरणे वा तदीयकेवलान्वयिव्युत्पादनस्य परमतत्वेन व्याख्यानात् ॥
.इति श्रीहरकिङ्करन्यायाचार्यपरमपण्डितभट्टवादीन्द्रविरचिते महाविद्या
विडम्बने केवलान्वयिभङ्गो नाम द्वितीयः परिच्छेदः ॥ २ ॥ ( भुवन० )-परमतनिरासेन सिद्धं स्वमतमुपसंहरति-तस्मात्साध्याभावेति । साध्याभाववद्वत्तित्वविरहो विपक्षवर्तनाभावो व्याप्यत्वं व्यतिरेकव्याप्तिरित्यर्थः-केवलान्वयीति । केवलान्वयिनो हेतोर्व्याप्यत्वं व्याप्तिस्तस्या असिद्धिर्दुवीरेत्यर्थः-तदिदं यथेष्टेति । अत्रानुत्तोऽपि मकालङ्कारो यथेष्टचारिण्येतिविशेषणेन महाविद्याया अकुलस्त्रीत्वमारोपयति । तस्याश्च संसर्गे प्राणत्यागरूपं प्रायश्चित्तं समजसमेव । सूत्रकारादिपूर्वाचार्यव्युत्पादितकेवलान्वयिनो भने कथं न सिद्धान्तविरोधोऽत्राह-न च वैशेषिकेति । ग्रन्थकर्ता हि वैशेषिकः, तत्र वैशेषिकादीनां केवलाजयिनं निराकुर्वतामपसिद्धान्त इति न च वाच्यमित्यर्थः-तदव्युत्पादनादिति । तस्य केवला. यित्वस्याव्युत्पादनात्-टीकाकारादीनामिति । टीकाकाराः कन्दलीकिरणावल्यादिटीकाकारः । ननु तैव्युत्पादिताः समवायादय आद्रियन्ते, कथं तद्यनादरणमित्याह-आदरणे वेति । नदीयं यत्केवलान्त्रयिव्युत्पादनं तस्य परमतत्वेन व्याख्यानादित्याशयः ।
इति श्रीजिनशासनश्रीसोमसुन्दरसूरिशिष्यश्रीभुवनसुन्दरसूरिविरचितायां महाविद्याविडम्बनवृत्तौ व्याख्यानदीपिकायां केवलान्वयिभङ्ग
व्याख्यानो नाम द्वितीयः परिच्छेदः समाप्तः ॥
For Private And Personal Use Only