SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९४ भुवनसुन्दरसूरिकृतटीकायुतं णात् । न च केवलान्वयिना धर्मेण कस्यचिदपि हेतोः साध्याभावववृत्तित्वाभावरूपा व्याप्तिः शक्यावगन्तुम् । केवलान्वयिनि साध्याभाववप्रतीतो तवृत्तित्वाभावस्य दुरधिगमत्वात् । (भुवन०)-साध्याभाववदाश्रितत्वविरह इत्यादिपदद्वयं व्याकरोति-साध्याभाववदतित्वेत्यादि । साध्यस्य योऽभावः विपक्षः, तत्र वृत्तित्वाभावो व्यतिरेकव्याप्तिः। व्याप्यत्वमविना. भावः इत्येतौ व्याप्तेः पर्यायौ । धूमादिलब्धस्थितिरित्येतद्व्याचष्टे-तस्यैवेति । तस्यैव अविनाभावस्यैव । अन्वयव्यतिरेकाभ्यामिति । यत्र धूमस्तत्र वह्निः, यत्र वह्निर्न भवति तत्र धूमोऽपि न भवतीत्येवं धूमादिनिष्ठस्यानुमितिः अनुमानं, तदङ्गतावधारणात् । 'व्याप्तिः सा न ही 'त्यादि व्याख्याति–नच केवलान्वयिनेत्यादि । न च केवलान्वयिना धर्मेण महाविद्यासाध्यादिरूपेण कस्यचिदपि प्रमेयत्वादिहेतोः, साध्याभाववन्तो महाविद्यासाध्यरहिताभावाः, तत्र वृत्तित्वाभावरूपा व्यतिरेकव्याप्तिः संभवति । इह हेतुमाह-केवलान्वयिनीति । केवलान्वयिनि हेतौ साध्यस्यापि केवलान्वयित्वात्तदभावस्यैवाभावात् साध्याभाववदप्रतीतौ साध्याभाववत्सु वृत्तित्वाभावस्य दुरधिगमत्वात्, महाविद्यायां विपक्षाभावात् साध्याभाववद्वृत्तित्वमेव दुरधिगममिति प्रतियोगिज्ञानाभावात् कुतस्तरां साध्याभाववद्वृत्तित्वाभावावगम इत्यर्थः । । अथ न साध्याभावववृत्तित्वाभावो व्याप्तिः, किन्तु अनौपाधिकः संबन्धः, स चाभिधेयत्वादिना प्रमेयत्वादेः शक्यावगम इति मन्यसे । तन्न । किमभिधेयत्वव्यापकः प्रमेयत्वाव्यापकश्च धर्म उपाधित्वेनाभिमतः प्रमितो न वा । आये तभावप्रतीतिर्वाधिता। द्वितीये तद्भावप्रतीतिरशक्या प्रतियोग्यप्रमितेरिति । यावन्तोऽभिधेयत्वादिसाध्यव्यापकाः तावत्सु प्रमेयत्वादिसाधनाव्यापकत्वं निषिध्यते । यावन्तश्च मेयत्वादिसाधनाव्यापकाः, तावत्सु अभिधेयत्वादिसाध्यव्यापकत्वं निषिध्यते । तस्मादनौपाधिकत्वसिद्धिरित्यपि न युक्तम् । प्रकृतसाध्यव्यापकप्रकृतसाधनाव्यापकधर्माप्रतीतौ तद्भावस्य भङ्गिसहस्रेणाप्यधिगन्तुमशक्यत्वात् । (भुवन०)-उदयनमतमाशङ्कते-अथ न साध्याभावेति । यत्र साध्यसाधनयोः सम्बन्धे उपाधिन भवति, सोऽनौपाधिकः सम्बन्धो व्याप्तिः । स चाभिधेयत्वादिनेत्यादि । शब्दोऽभिधेयः प्रमेयत्वात् घटादिवदित्याद्यनुमाने विपक्षाभावादनौपाधिक: संबन्धः शक्यावगमः । अत्र चाभिधेयत्वादिधर्मो यदुपात्तस्तदुपलक्षणम् । एवमन्येऽपि महाविद्यासाध्यादयः केवलान्वयिधर्मा अत्र ज्ञेयाः । तथाहि-महाविद्यायां स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वादिसाध्यस्य सर्ववस्तुनिष्ठत्वात्केवलान्वयित्वेन विपक्षीभावाद्यस्य कस्याप्युपाधेरावश्यकपक्षेतरदोषग्रस्तत्वेन अनौपाधिकसंबन्धत्वं शक्यावगममित्यर्थः । अथ दूषयति-तन्न । किमभिधेयत्वेत्यादि । साधनाव्यापकः साध्यव्यापकः उपाधिरित्युपाधिलक्षणम् । तत्र अभिधेयत्वसाध्याव्यापक: प्रमेयत्वसाधना. For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy