SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प० २ महाविद्याविडम्बनम् | ( भुवन० ) – ममाप्रमितत्वेऽप्यन्येषां प्रमातॄणां प्रमितत्वादाश्रयत्वोपपत्तेर्न हेतोराश्रयासिद्धत्वमिति परोक्तं चेतसि निधायाङ्गीकुर्वन्नप्याह — अस्तु वैतद्धटव्यतिरिक्तेत्यादि । एतस्मादनुमानादिति । एतद्धव्यतिरिक्तसकलवस्तूनि प्रमेयत्वाधारः अभिधेयत्वादित्यतः । सकलवस्तुनिष्ठत्वेत्यादि । सकलवस्तुनिष्ठत्वाख्यं केवलान्वयित्वं तु कुतः प्रमाणात्प्रमेयत्वादीनां सिध्यति । अयमर्थः । एतद्भटव्यतिरिक्तसकलवस्तूनामेतदनुमानात्प्रमेयत्वमस्तु । तथापि केवलान्वयित्वं प्रमेयत्वादीनां न सिध्यति । एतद्रूटस्य पक्षाद्बहिष्कृतत्वेन प्रमेयत्वादीनामेतनिष्ठत्वस्यैवासिद्धेः सकलवस्तुनिष्ठत्वरूपकेवलान्वयित्वासिद्धिरिति । Acharya Shri Kailassagarsuri Gyanmandir ७९ 3 " अथ एतद्धनिष्ठत्वं प्रमेयत्वादीनां प्रत्यक्षसिडम् । एतद्धदव्यतिरिक्तसकलवस्तुनिष्ठत्वं तु प्रकृतानुमानात् । तेन प्रमाणद्वयेपर्यालोचनया प्रमेयत्वादीनां सकलवस्तुनिष्ठत्वसिद्धिरिति ब्रूषे तन्न । प्रमाणद्वयपर्यालोचनया प्रमेयत्वादीनां सकलवस्तुनिष्ठत्व सिद्धिरिति कोऽर्थः । किं प्रत्यक्षपर्यालोचनया सकलवस्तुनिष्ठत्वसिद्धि:, अनुमानपर्यालोचनया च सकलवस्तुनिष्ठत्वसिद्धिरित्यर्थः, किंवा मिलितप्रत्यक्षानुमानपर्यालोचनया सकलवस्तुनिष्ठत्वसिद्धिरित्यर्थः । किंवा प्रत्यक्षतः एतद्वयनिष्ठत्वसिद्धि:, प्रमेयत्वादीनामनुमानतश्चैतव्यतिरिक्त सकलवस्तुनिष्ठत्वसिद्धिः तेन प्रत्यक्षानुमानावगतैतद्धनिष्ठत्वे सति एतद्धव्यतिरिक्त सलवस्तुनिष्ठत्वात्सकलवस्तुनिष्ठत्वं प्रमेयत्वादीनामनुमीयते इत्यर्थो विवक्षितः । नाद्यः । प्रत्यक्षस्यैतद्वटमात्रनिष्ठत्वग्राहकत्वात् । अनुमानस्य चैतद्धव्यतिरिक्तसकलवस्तुमात्रनिष्ठत्वग्राहकत्वाच्चेति । नापि द्वितीयः । प्रत्यक्षानुमानयोर्मिलितयोः सकलवस्तुनिष्ठत्वप्रमाजनकत्वस्य निप्रमाणकत्वादिति । नापि तृतीयः । प्रमेयत्वादयः सकलवस्तुनिष्ठाः, एतद्घटनिष्ठत्वे सति एतद्धव्यतिरिक्तसकलवस्तुनिष्ठत्वादित्यादेरप्रसिद्धविशेषणत्वात् । एतद्धनिष्ठत्वे सति एतद्धव्यतिरिक्तसकलवस्तुनिष्ठत्वमेव सकलवस्तुनिष्ठत्वम्, तच्च प्रकृतप्रमाणद्रयावसितमिति नाप्रसिद्धविशेषणतेति चेत् । न । प्रमेयत्वादयः सकलवस्तुनिष्ठाः सकलवस्तुनिष्टत्वादित्यादेः साध्याविशिष्टत्वात् । For Private And Personal Use Only ( भुवन ० ) - प्रत्यक्षानुमानयोः प्रत्येकं सकलवस्तुनिष्ठत्वसाधकत्वाभावेऽपि सम्भूय तत्साधकत्वं भविष्यतीत्याशङ्कते - अथैतद्धनिष्ठत्वमित्यादि । वक्ष्यमाणविकल्पासहतया परोक्तं परिहरतितन्नेति । परोक्तस्यार्थ पक्षत्रैधं विधाय पृच्छति । प्रमाणद्वयेति । 'किं प्रत्यक्षेत्यादिः 'सिद्धिरित्यर्थः ' इति पर्यन्तः प्रथमो विकल्पः । केवलेन प्रत्यक्षेणापि सकलवस्तुनिष्ठत्वसिद्धिः, अनु १ द्वयस्य प' इति ध पुस्तक पाठः ।
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy