________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६६
आनन्दपूर्ण - श्रीभुवनसुन्दरसूरिकृतटीकायुतं नित्यत्वस्यैतच्छब्दनिष्ठत्वसिद्धिः । अनित्यत्वान्योन्याभावमुपादाय घटादौ
साध्यप्रसिद्धिः ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१ ( आनं० ) - अनित्यत्वमिति । अनित्यत्वान्योन्याभावप्रतियोगित्वमनित्यत्वस्य नास्तीति तन्निष्ठो धर्मः प्रतियोगित्वनिष्ठत्वरहित इत्यर्थान्तरत्वमत आह— अत्यन्ताभावेति । घटनिष्ठात्यन्ताभावप्रतियोगिनिष्टत्वरहिताधिकरणत्वेन तथाप्यर्थान्तरत्वं, घटेऽनित्यत्वात्यन्ताभावाभावात्, अनित्यत्वं तदप्रतियोगीत्यनित्यनिष्ठधर्मस्य तथात्वादत उक्तम् — एतच्छन्द निष्ठेति । एतच्छन्दनिष्ठात्यन्ताभाप्रतियोगित्वाद्वटादिनिष्ठधर्माः एतच्छब्द निष्ठात्यन्ताभावप्रतियोगिनिष्ठाः एवेति घटादिषु साध्याभावाव्याप्तिभङ्गोऽत आह-- अनित्यत्वान्योन्याभावव्यतिरिक्तेति । अनित्यत्वान्योन्याभावव्यतिरिक्तत्वे सत्येतच्छब्दनिष्टात्यन्ताभावप्रतियोगिनिष्ठत्वरहितो नित्यत्वान्योन्याभावः सर्वत्रेति व्याप्तिसिद्धिः । एतच्छब्दानित्यत्वाभावे नित्यत्वस्यैतच्छब्द निष्ठात्यन्ताभावप्रतियोगित्वात्तन्निष्ठधर्माणामेतच्छब्दनिष्ठात्यन्ताभावप्रतियोगिनिष्ठत्वात्तद्रहिताधिकरणमनित्यत्वस्य न स्यादित्येतच्छब्दानित्यत्व
सिद्धिरिति भावः ॥ १॥
1
१ ( भुवन० ) - अथ साध्यं पक्षीकृत्य प्रवर्तमानमहाविद्याभेदा दश्यन्ते यथा - - अनित्यत्वं अनित्यत्वान्योन्याभावेत्यादि । अनित्यत्वस्यान्योन्याभावः तस्माद्व्यतिरिक्तञ्चासौ एतच्छन्दनिष्ठो योऽत्यन्ताभावः तत्प्रतियोगिनिष्ठश्च तत्त्वेन रहितो यो धर्मः, तस्याधिकरणमनित्यत्वमिति विग्रहः । इदमत्राकूतम् । एतस्मिन शब्दे निष्ठो योऽत्यन्ताभावस्तस्य प्रतियोगिनः एतच्छब्दमात्रनिष्ठैतच्छदत्वादिव्यतिरिक्ता घटत्वपटत्वादयः सर्वपदार्थधर्माः तेषु निष्टाः घटवृत्तित्वपटवृत्तित्वादयोऽनित्यत्वान्योन्याभावोऽपि च । तस्याप्यनित्यत्वं विना सर्वत्र वर्तनात्परं अनित्यत्वान्योन्याभावव्यतिरिक्तेति पदेन घटादिषु व्याप्तिसिद्ध्यर्थमनित्यत्वान्योन्याभावो घटवृत्तित्वादिभ्यः पृथक् कृतः । ततश्चानित्यत्वान्योन्याभावव्यतिरिक्तैतच्छब्द निष्ठात्यन्ताभावप्रतियोगिनिष्ठत्वेन रहिता ये धर्मा - स्तद्वदनित्यत्वमिति । एवंविधं च धर्मद्वयं स्यात्तदेवाह - अनित्यत्वेति । अनित्यत्वान्योन्याभावो वा, एतच्छन्दनिष्ठात्यन्ताभावप्रतियोगिनिष्ठत्वरहितो वा । आद्यः पक्षे व्याहत इति । न ह्यनित्यत्वा - न्योन्याभावोऽनित्यत्वे संभवति । भिन्नयोरेव द्वयोरन्योन्याभावस्य संभवात् । न चानित्यत्वमनित्यत्वाद्भिन्नमिति संभवति । द्वितीयं पैक्षे साधयति — एतच्छब्देति । एतच्छब्दनिष्ठात्यन्ताभावप्रतियोगिनो घटत्वादयः एतच्छन्दत्वादिव्यतिरिक्ताः सर्ववस्तुधर्माः तेषु निष्ठाः घटवृत्तित्वादयः । घटत्वादिष्वपि घटवृत्तित्वादिधर्मसम्भवात् । तद्रहितश्च साध्यो धर्मः पक्षेऽनित्यत्वे एतच्छब्दवृत्तित्वलक्षणः । स चानित्यत्वे पक्षिते तदैव स्यात्, यद्यनित्यत्वं एतच्छब्दनिष्ठो योऽत्यन्ताभावरतस्य प्रतियोगि न स्यात् । इदमत्र हृदयम् । यद्यनित्यत्वस्य अत्यन्ताभावः शब्दनिष्ठः स्यात्, तदा शब्दवृत्तित्वलक्षणो धर्मोऽप्यनित्यत्वे पक्षिते न स्यात् । अनित्यत्वस्य शब्देऽवर्तमानत्वेन शब्दवृत्तित्वस्य अनित्यत्वेऽवर्तनात् । ततश्चानित्यत्वात्यन्ताभावस्य शब्दावृत्तित्वेनानित्यत्वस्य शब्दवृत्तित्वमङ्गीकार्यम् । तथा च शब्दत्वादिधर्मेषु यथा शब्दवृत्तित्वमस्ति, तथा अनित्यत्वेऽपि शब्दवृत्तित्व
१ 'यं पक्षं सा' इति छ. द. पुस्तकपाठः /
For Private And Personal Use Only