SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प० १ महाविद्याविडम्बनम् | ( भुवन० ) -- तथापि अप्रसिद्ध विशेषणत्वपरिहारः कथमत आह- गगनेतर नित्यवृत्तित्वेत्यादि । गगनान्योन्याभावादेरिति । आदिपदेन गगनमात्रनिष्ठस्यात्यन्ताभावो गृह्यते । ततो गगनान्यत्वादेर्गगनेऽवर्तनाद्भगनेतरनित्येषु च वर्तनाद्युगला वृत्तित्वेन गगनेतर नित्यगगनवृत्तित्वर हितत्वं एतच्छब्दे वर्तमानत्वादेतच्छन्दनिष्ठत्वं च विद्यते एव । तस्माद्गगनान्यत्वादेर्दृष्टान्ते सुप्रसिद्धत्वमित्यर्थः । व्याघात इति । यो गगनवृत्तित्वरहितः स गगनवृत्तिः कथं साध्यत इति व्याघातः प्रकट एव । तन्निवृत्यर्थं गगनेतर नित्यग्रहणम् । तथा च कथं तद्व्यवच्छेद इत्यत आह - गगनवृत्तित्वरहितस्येत्यादि । न्यूनविशेषणविशिष्टस्य व्याघातेऽपि, सम्पूर्णविशेषणविशिष्टस्य न व्याघात इत्यर्थः ॥ ७ ॥ ८ गगनं गगनेतरनित्यगगनवृत्तित्वरहितशब्दनिष्ठाधिकरणं मेयत्वादिति । पूर्वमहाविद्यायां निष्कृष्य एतस्मिन् शब्देऽनित्यत्वसिद्धिः । अस्यां तु यत्र कापि शब्देऽनित्यत्वसिद्धिरिति भेद: । एवमन्यत्रापि निष्कृष्य शब्दविशेषानित्यत्वसाधकत्वयत्किञ्चिच्छब्दानित्यत्वसाधकत्वाभ्यां महाविद्याभेदो Acharya Shri Kailassagarsuri Gyanmandir दृष्टव्यः ॥ ८ ॥ ८ ( आनं० ) - प्राचीनमहाविद्यातो भेदनास्तित्वशङ्कां वारयितुमाह - पूर्वेति ॥ ८ ॥ ८ ( भुवन ० ) - गगनं गगनेतरनित्यगगनवृत्तित्वरहितेत्यादि । पाश्चात्यानुमाने एतच्छन्दनिष्ठेत्युक्तेरेक एव विशिष्टः शब्दो गृहीतः । अत्र तु शब्दनिष्ठेतिभणनात् सामान्येन यः कश्चिच्छब्दः इति पूर्वस्या अस्या महान्भेदः, तथैव चाभिदधाति — पूर्व महाविद्यायामित्यादि ||८|| ९ गगनं अनेकनित्यवृत्तित्वरहितैतच्छन्द निष्ठाधिकरणं मेयत्वादिति । अनेकनित्यवृत्तित्वरहितः गगनवृत्तित्वरहितो वा एतच्छब्दवृत्तित्वरहितो वा उभयवृत्तिर्वा । गगनवृत्तित्वरहितो गगने व्याहतः । एतच्छब्दवृत्तित्वरहितश्च एतच्छब्दनिष्ठग्रहणेन निरस्तः । गगनैतच्छब्द‌निष्टस्य च अनेकनित्यनिष्ठत्वरहितत्वं तव स्यात्, यद्ययं शब्दो नित्यो न स्यात् । एतच्छन्दनित्यत्वे गगनैतच्छन्दनिष्ठस्य अनेकनित्यनिष्ठत्वेन तद्रहितत्वानुपपत्तेरेतच्छब्दानित्यत्वसिद्धि: । एतच्छब्देतरनित्यत्वात्यन्ताभावमुपादाय एतच्छब्दघटादौ साध्यप्रसिद्ध्या सपक्षत्वं, गगनव्यतिरिक्तनित्यादीनां च पक्षतुल्यत्वम् ॥ ९॥ ९ ( आनं ० ) - अनेकेति । अनेकनित्यवृत्तित्वरहितश्चासावनेतच्छन्दनिष्ठश्च तस्याधिकरणमित्यर्थः । एतच्छन्द दनिष्ठाधिकरणमित्युक्ते मेयत्वादिनार्थान्तरं व्यावर्तयति - नित्यवृत्तित्वरहितेति । व्याघातं परिहरति-— अनेकनित्यवृत्तित्वरहितेति । तथापि गगननिष्ठैकत्वादिनार्थान्तरत्वमत आह——एतच्छब्दनिष्ठेति । अनेकनित्यवृत्तित्वरहितः एतच्छन्दनिष्ठः एतच्छब्देतरनित्यान्योन्या १ चिः । एतस्यां तु' इति घ ज पुस्तकपाठः । २° रिति महान् भे इति ज पुस्तकपाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy