________________
Shri Mahavir Jain Aradhana Kendra
५८
www.kobatirth.org
आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं
मित्यपि नित्यत्वेनार्थान्तरमित्यादि स्वयमूह्यम् । एतच्छब्देतरानित्यगगनवृत्तित्वरहितो नित्यनिष्ठश्च धर्मो गगनान्यत्वं पक्षातिरिक्त सर्वत्रास्तीति व्याप्त्यनुगमः । गगने त्वेतच्छब्दे तरानित्यगगन वृत्तित्वरहितः एतच्छब्द्गगनमात्रवृत्तिरनित्यनिष्ठः सिध्यन्ननित्यत्वमेतच्छब्दस्य गमयतीति भावः । प्रथममहाविद्यातोऽस्या भेदमाह — पूर्वेति ।
३ ( भुवन० ) – अथ
Acharya Shri Kailassagarsuri Gyanmandir
" अपक्षसाध्यवद्वृत्तिविपक्षे पक्षिते न यत् । साध्यवद्वृत्तितायुक्तं साध्यते तद्विपक्षगम् ॥ "
इति कारिकामाश्रित्य या प्रवर्तते तां ब्रूते - गगनमेतच्छदेत नित्यगगनवृत्तित्वेत्यादि । एतच्छब्देतरा नित्याश्च गगनं च तत्र वृत्तिर्येषां तेषां भावस्तत्त्वं धर्मः, तद्रहितश्चासावनित्यनिष्ठश्च - तस्याश्रयो गगनभित्यर्थः । नित्यत्वतदवान्तरधर्मव्यावृत्त्यर्थमनित्यनिष्ठेत्युक्तम् । मेयत्वादिव्यावृत्त्यर्थमेतच्छब्देतरानित्यगगनवृत्तित्वरहितेत्युपात्तम् । गगनवृत्तित्वरहिता नित्यनिष्ठाधिकरणमित्युक्ते व्याघातः, तन्निवृत्त्यर्थमनित्येति । अनित्यगगनवृत्तित्वरहितोऽनित्यनिष्ठश्चानित्यमात्रवृत्तिरनित्यत्वादिनित्येन सम्भवतीत्युक्तं शब्देतरेति । पक्षतुल्ये यत्र कापि शब्दे साध्यपर्यवसानवारणाय एतदिति । इति व्यावृत्तिचिन्ता । एतच्छब्दे तरा नित्यगगनवृत्तित्वरहितोऽनित्यनिष्ठश्च धर्मो गगनान्यत्वं पक्षातिरिक्ते सर्वत्रास्तीति व्यात्यनुगमः । गगने तु एतच्छब्देतरा नित्यगगन वृत्तित्वरहितः एतच्छन्दगगनमात्रवृत्तिरेतच्छन्द्गगनान्यतरत्वादिरनित्यनिष्ठः सिध्यन् अनित्यत्वमेतच्छन्दस्य साधयतीत्याशयः । प्रथममहाविद्यातोऽस्या भेदं प्रदेर्शयति-- पूर्वमहाविद्या नित्यमात्रमित्यादि । पूर्वमहाविद्यायां नित्येतिभणनात्सर्वे नित्यपदार्थाः स्वीकृताः । अत्र तु नित्यपदस्थाने पक्षीकृतं गगनमेव न्यस्तमित्यनयोर्विशेषः ॥ ३ ॥
४ गगनं शब्दत्वरहितानित्यगगनवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादिति ॥ एतस्मिंश्च महाविद्याचतुष्टये गगनेतरनित्यानां प्रकृतशब्दादेश्च पक्षतुल्यत्वम् ॥ ४ ॥
४ ( आनं० ) - चतुर्थमहाविद्या द्वितीयमहाविद्यावद्व्याख्येया । अनित्यनित्यवृत्तित्वरहितानित्यनिष्ठः पक्षतत्तुल्यशब्देषु गगनातिरिक्तनित्यपदार्थे च नास्तीति व्याप्तिभङ्ग इत्यत आहएतस्मिन्निति । तृतीयचतुर्थमहाविद्ययोर्गगनान्यत्वं गगनातिरिक्ते सर्वत्रास्तीति व्याप्तिसिद्धेरेतस्मिन्प्रकरणे महाविद्याचतुष्टये प्रथमद्वितीयमहा विद्याद्वये वक्ष्यमाणमहा विद्याद्वये चेत्यर्थः ।
४ ( भुवन० ) - गगनं शब्दत्वरहितानित्यगगनेत्यादि । शब्दत्वरहिताः शब्दत्वात्यन्ताभाववन्तः । ते च तेऽनित्याश्च शब्दत्वरहितानित्याः । ते च गगनं च तत्र वृत्तिर्येषां ते तथा । शेषं तृतीयमहाविद्यावद्व्याख्येयम् । एतच्छब्देतरा नित्य नित्यवृत्तित्वरहितानित्यनिष्ठादिधर्मः शब्देषु गगनातिरिक्तनित्यपदार्थेषु च नास्तीति व्याप्तिभङ्ग इत्यत आह - एतस्मिंश्चेति । तृतीय चतुर्थमहाविद्ययोगगनान्यत्वं पादौ शब्दे च सर्वत्रास्तीति व्याप्तिसिद्धेः, प्रथमद्वितीयमहाविद्याद्वये वक्ष्यमाणमहाविद्याद्वये चेत्यर्थः ॥ ४ ॥
१ प्रवर्तयति इति द छ पुस्तकपाठः । २ ' प्रकृते ' इति स्वाद ( ? )
For Private And Personal Use Only