________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
सामग्रीं, समापितं च संप्तमेऽहनि अस्थाच तत्र स्वस्थो दत्तं चाशीर्वचनं तस्मै प्रतिष्ठापितश्च पूततया यतो निष्ठितं तस्मिन्नखिलं क्षितिवलयजननादि, जातश्च कृतकृत्यः सोऽस्मिन्नहनि तथा च सप्तमोऽयं रविवासराख्यमह इति व्यावर्ण्य स्वकपोलकल्पनया हास्यास्पदमेवेहितमाविष्कृतं च पुरतो वाटिकाज्ञानफलभक्षणश्रापवितरणादिवृत्तान्तेनेत्यलमतिप्रसङ्गेन ।
"
मुसलमीनाख्याध्वानुयायिभिरप्याख्यायते स्वाभिमत - खुदाभिधानपरमैश्वर्यराजित - परमेश्वरप्रवर्तितया जगदिदम् | यश्च विधत्ते अस्मै नत्यादि, कुरुते चाङ्गीक्रियामन्त्यदिवसविधेयाया न्यायसत्तायाः पारमेश्वर्याः प्राप्नोत्यसावरमप्रत्यूहं निवारिताखिलानिष्टदुःखाभिधानमपि स्वः पदं, परमेश्वरपरमकृपास्पदतया तदीयाज्ञैव ततः शिरःशेखरकल्पा धार्या सततमेवमनेकधा धाविता अधौतान्तरामानो लोकसञ्ज्ञानुसारिणो मिथ्यात्वलुप्तस्वपरविवेकक्षम यथार्थदर्शनलोचनाः ।
तदेवं विविधकर्तुवादसत्त्वादाऽऽदिशब्द उपात्तोऽत्र सूरिभिः । 'न परमपुरुषादिकृत ' इत्यत्र परमपुरुषो हि ब्रह्माऽभिधीयतेऽन्यैस्तदायाचाखिला अन्ये आदिशन्दतो मता अन्यमतानुगैः स्वस्वेश्वरास्तेऽपि ग्राह्या इत्यादिशब्दः । यद्वा-यथा पञ्चास्तिकायात्मकत्वेन लोकस्यानादित्वं तता न परमेश्वरविहितत्वं लोकस्य तथैव प्रकृत्युद्भवत्वमपीत्यादिशब्दनिवेश आदृतः आचार्यैः । प्रकृतिजातत्वमपि जगत उदाहरन्त्येव केचन । नन्दाहरन्ति परं नात्मनां प्रकृतिज्ञातत्वमभिमन्यते ते इति चेत् । सत्यम्, परमात्मगुणतयानुभवसिद्धाया बुद्धेस्तत्वेन प्रतिज्ञानात कथत्तित्वात । यद्वा-कर्तत्वादि
9
For Private And Personal Use Only