________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
लोकविंशिका
' अथ स्वभावतो वृत्तिरविता महेशितुः । परीक्षकाणां तह्येष परीक्षाक्षेपडिण्डिमः ' || इति परीक्षाक्षेपडिण्डिमता च कर्मणामेव तथास्वभावत्वस्वीकारे जगतो वा न किञ्चिन् मुखवकत्वादिविकारगमनं स्याद्, ईश्वरे च स्पष्टैव दोषाणामस्खलिता संहतिरापतन्ती नैव निवारयितुमपि पार्यते समर्थेनापि वादिना । अन्यच्चस्वभावे च जगत्कर्तुतादृशे, अधुना जगदकरणात्तद्धानिः । तथा चानीश्वरता । अनादित्वाच्च तस्य तत्स्वभावस्याप्यनादितापत्तौ स्पष्टैवानादितेश्वरवद् जगतोपीति प्रसङ्गानुप्रसङ्गेन सृतम् । अनेन 'नाsसावेकाकी रेमे साहाय्यमीक्षाञ्चके तथाऽहं नामा बभूवे 'त्यादयो वादा अपि निरस्ता एव वेदितव्याः, सर्वेषां प्रयोजनाभावोपपादनेनैव गतार्थत्वात् । __अथ द्वितीयं दूषणमाहुः-'दलाभाव 'त्ति । एतच्च-ईश्वरेच्छानिमित्तमेव जगदिति वादिनो ब्रह्ममात्राभ्युपगमेनान्यद्रव्यानभ्युपगमप्रवणानद्वैतान् वोद्दिश्य ज्ञेयम् । यद्वा-द्रव्यमाश्रित्यैवाऽत्र विवादात् । यतो निर्णीतमेव तावद् यद्यदि द्रव्यमनादितयाऽङ्गीक्रियेत द्रव्यस्य पर्यायरहितत्वादापन्नैव पर्यायाणामनादितेति 'दलाभावादिति । यद्वापञ्चास्तिकायात्मकत्यालोकस्य, तस्य विधेयतायां प्रक्रियमाणायां दलाभाव इत्यस्यैव दूषणता । यतोऽनादिनिधनता कारणविभागनाशाभावादिना तस्य साधितेति ।
तत्र 'दलं शस्त्रीच्छदेऽर्धपर्णयोः । उत्सेधवद्वस्तुनि च [अनेकार्थ संग्रहे ] इति । दल-वस्तु, तच्च यद्यपि द्रव्यगुणपर्यायाणामन्यतमद् भवति, तथापीह प्रकरणादेव द्रव्यं गृह्यते, पारिभाषिको वा दलशब्दो व्यवाचकतया प्रसिद्ध एव । तथा च कचित् कोशे 'शत्रोच्छदेप्य.
For Private And Personal Use Only