________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
२१८
ताप नास्माकं स्वागमविरोधापात उपरि । तादृशान् परमपुरुषात् प्रभवः- उत्पत्तिर्येषां ते परमपुरुषप्रभवाः 'भूरच्यदोऽल' [५।३।२३] इति भावेऽल्प्रत्ययः । तथा च प्रभवनं विद्यमानतयाऽऽविर्भावः प्रभवः ।
6
अनेन असतामेषां तथाभावं पूर्वपक्षयन्ति । अत्र द्विविधा अपि वादिनः गृहीता एकत्र । 'अपाये ऽवधिरपादान ' [ २/२/२९] मिति जातायामपादानसञ्ज्ञायाम् ' पश्चम्यपादान ' [ २/२/६९ ] इति पञ्चमी । तथा च परमपुरुषोपादाना नैतेऽस्तिकाया इति तु प्रकृतमेव । वक्ति च सर्वं खल्विदं ब्रह्मे 'ति सर्वान्तःपातिनां घटपटादीनामपि ब्रह्मोपादानता । अन्यत्र तु परमपुरुषेण प्रभव उत्पतिरिति करणतृतीयेव । पञ्चमी वा " गम्ययपः कर्माधारे ' [ २७४ ] इत्यनेन । तथा च परमपुरुषमाश्रित्य प्रभव इत्यर्थः । तथा न परमात्मा जगत उपादानकारणं, किन्तु निमित्तकारणमेव । नहि चेतनं भवत्यचेतनस्योपादानम् । केशादिदृष्टान्तश्च कारणानभिज्ञतामूल एव । आत्मन्यविकृते ऽपि जरादिना केशादीनां विकारोपलब्धेः । यच्च यदुपादानं तत्तस्मिन् विक्रियमाणे विक्रियामवाप्नोति, यथा मृद्विकारे घटस्य । न चैवमत्रेति नोपादनता युक्ता ब्रह्मणः किन्तु निमित्ततैवेति । प्रोशन्ति उभयमपि सङ्गृहीतं ज्ञेयमेतत् ।
:
"
द्ययस्तिकायज्ञानमेत्र तेषां न, अरूपिज्ञानस्य केवलिनामेव भावात् । छद्मस्थप्रणीताञ्च त्वदीया आगमाः, तदनुसारिणां च कथमरूपिज्ञानं श्रद्धानं वा स्याद् आत्मनस्तु स्वानुभूतत्वेन यथा तथा प्ररूपणं श्रद्धानं च नानर्हम् । न चास्तिकाया धर्माद्यास्त्रयस्तथा, परं लोकस्याभ्युपगमात्तैस्तस्य चास्तिकायात्मकत्वात् प्रतिपादितं सूरिभिरेवम् । नह्यन्येनाप्रतिपन्ने धीमद्भिर्वस्तुस्वरूपमन्यथाख्येयमिति
For Private And Personal Use Only