SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૫૯ परिशिष्ट ओ तस्मात् स कश्यपमुनेर्जगदेकचक्षुराविर्बभूव भगवानदितौ सुपल्याम् । तेजोनिधिग्रहपतिस्तमसां निहन्ता चण्डांशुभानुमिहिराभिधया प्रसिद्धः ॥५॥ तेन प्रसादातिशयेन वंशःप्रष्ठापितः श्रीमिहिरेण भूमौ । तद्वंशजाः ख्यातिमगुत्रिलोक्यां ते मैहिरा इत्यतिपुण्यवन्तः ॥६॥ वंशे तस्मिन्नजनि रजनीकान्तविद्योतमानो वित्तेशादप्यधिकविभवो वैजल्याख्यः प्रसिद्धः। आसीदस्याप्यथ सुतनयः सोहडः सर्वमान्यो नान्यो यस्य व्रजति तुलनां सद्गुणैः कोऽपि लोके ॥७॥ चत्वारोऽमुष्य पुत्राः समजनिषत ते वानराद्या वदान्याः द्वैतीयीकोऽय रामस्तदनु च विजयी श्रीमुकुन्दो महौजाः । सन्माणकानुयायी विविधगुणनिधिः श्रीमुरारिश्चतुर्थों माता रूडीति नाम्ना समभवदुचिता काशिपुर्येकवासा ॥८॥ मुकुन्द इति नामा योऽजनिष्ठास्य सुनन्दनः । पली तस्याऽभवद्राजू नाम्नी श्रीधनदाम्बिका ॥९॥ पुत्रस्तस्याऽथ धन्यः सकलगुणनिधिः श्रीधनानामधेयो भामादेवीति भार्या समभवदपरा पूरिनामाऽस्ति यस्य। वापी चन्द्राश्मनद्धां सरसि वडुवकेऽचीकरद्विष्णुतृप्त्यै शश्वत्सञ्चित्तहंसो जगति विजयते श्रीमति स्तम्भतीर्थे ॥१०॥ वापीकूपतडागसत्रविविधप्रसादविप्रस्थितिमाधान्योदकविप्रपूर्वहुविधाऽऽरामादिदानानि च धन्यस्य द्विजवल्लभस्य सुतरां सुश्रद्धया कुर्वतस्तृप्तिं याति मनो न यस्य स धनो जीयात् सतां सम्मतः ॥११॥ For Private and Personal Use Only
SR No.020443
Book TitleKhambhatno Itihas
Original Sutra AuthorN/A
AuthorRatnamanirao Bhimrao
PublisherDilavarjung Nawab Mirza
Publication Year1935
Total Pages329
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy